पृष्ठम्:मनोहरकाव्यमाला.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६२ )

आकारं गूहमाना च मन्युनातिसमीरितम् ।
तपसा संभृतं तेजो धारयामास वै तदा ॥ ४४ ॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।
भर्त्तारमभिसंप्रेक्ष्य क्रुद्धा राजानमब्रवीत् ॥ ४५ ॥
कथं न स्मरसे राजन् मृगयामधिगच्छता ।
गान्धर्वेण गृहीतो यत्पाणिर्मे विधिना नृप ॥ ४६ ॥
इति श्रुत्वा तु वचनं शापेनास्तमितस्मृतिः ।
अब्रवीन्न स्मरामि त्वां कस्य त्वं दुष्टतापसि ॥ ४७ ॥
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ ४८ ॥

शकुन्तलोवाच-

कुतः प्रियंवदे साध्वि अभिज्ञानमिहानय ।
धूर्त्तमेनं सभामध्ये ह्रेपयामि नराधिपम् ॥ ४९ ॥
इत्युक्त्वा पाणिमाक्षिप्य भूयो भूयः प्रियंवदाम् ।
उवाच देहि देहीति ह्रेपयामि नराधिपम् ॥ ५० ॥
प्रियंवदा तु नीचैस्तां जगाद मृगलोचनाम् ।
कर्णान्तिके समासाद्य पतितं ते तदम्भसि ॥ ५१ ॥
तदुपश्रुत्य कल्याणी रम्भेव मरुता हता ।
पपात भूमौ निश्चेष्टा हा हतास्मीति वादिनी ॥ ५२ ॥
अथ तां गौतमी वृद्धा बाहुभ्यां मृगलोचनाम् ।
आश्लिष्य सान्त्वयामास लेभे संज्ञां ततः पुनः ॥ ५३ ॥
अथ क्रुद्धा महाभागा सख्यै राज्ञे च भामिनी ।
उवाचाश्रूणि संमार्ज्य स्मरन्ती पितरं मुनिम् ॥ ५४ ॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे ।
न जानामीति निश्शङ्कं यथान्यः प्राकृतो जनः ॥ ५५ ॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य वा ।