पृष्ठम्:मनोहरकाव्यमाला.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६१ )

इयं प्रियंवदा नाम सखी चास्या मुनेः सुता ॥ ३२ ॥
इयं च ब्राह्मणी वृद्धा राजन् गौतमवंशजा ।
राजन् वयमिहायाता अनया गुरुवाक्यतः ॥ ३३ ॥

राजोवाच-

कति सन्तीह गणिका भ्रमन्ति कामसेवया ।
राजराजस्य महिषी का नो भवितुमिच्छति ॥ ३४ ॥
ब्राह्मणा विविधाः सन्ति तापसाश्छद्मरूपिणः ।
तासामनुग्रहेणैव समं ताभिर्भ्रमन्ति च ।
भुञ्जते विपुलान्भोगान्गणिकाभिरुपार्जितान् ॥ ३५ ॥
निशम्य नृपतेर्वाक्यं शिष्यो कण्वस्य तापसौ ।
शेपतुर्विरहेणास्याः पश्चात्तापमवाप्स्यसि ॥ ३६ ॥
इत्युक्त्वा तौ गतौ वृद्धौ तापसौ ब्रह्मवादिनौ ।
गौतमस्तौ प्रसाद्याथावासयत् स्वे च वेश्मनि ॥ ३७ ॥
अथ सा गौतमी वृद्धा जगाद जगतीपतिम् ।
नैवमर्हसि भो राजन् विश्वामित्रसुतां प्रति ॥ ३८ ॥
एवं लावण्यमापन्ना क्व दृष्टा गणिका त्वया ।
अन्तःसत्त्वा महामागा त्वया राजन् विवाहिता ॥ ३९ ॥
समाहितेन मनसा स्मर पश्य च सुन्दरीम् ।
इत्युक्त्वा मोचयामास शिरश्छादनमम्बरम् ॥ ४० ॥

राजोवाच-

पौरवाणां कुले जाताः सतां मार्गे कृतासनाः ।
न वयं रूपमात्रेण गणिकानां भ्रमामहे ॥ ४१ ॥
एवं वदति भूपाले व्रीडितेव तपस्विनी ।
निसंख्येन च दुःखेन तस्थौ स्थूणेव निश्चला ॥ ४२ ॥
संरम्भामर्षताम्राक्षी स्फुरमाणौष्ठसम्पुटा ।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥ ४३ ॥