पृष्ठम्:मनोहरकाव्यमाला.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६४ )

तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ६७ ॥
मुनिनाभिहता चाहं तव पुत्रो भविष्यति ।
राजराजश्चक्रवर्ती न तन्मिथ्या भविष्यति ॥ ६८ ॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ ६९ ॥
अर्द्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
भार्या मूलं त्रिवर्गस्य भार्या मूलञ्च सन्ततेः ॥ ७० ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ७१ ॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ ७२ ॥
कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै ।
यः सदारः स विश्रान्तस्तस्माद्दाराः परा गतिः ॥ ७३ ॥
संसरन्तमभिप्रेतं विषमेष्वनपातिनम् ।
भार्यै वान्वेति भर्तारं सन्ततं या पतिव्रता ॥ ७४ ॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य समीक्षते ।
पूर्वं मृतं च भर्त्तारं पश्चात् साध्व्यनुगच्छति ॥ ७५ ॥
एतस्मात्कारणद्भप पाणिग्रहणमिष्यते ।
यदाप्नोति पतिर्भार्यामिहलोके परत्र च ॥ ७६ ॥
दह्यमाना मनो दुःखैर्व्याधिभिश्चातुरा नराः ।
ह्लादन्ते स्वेषु दारेषु धर्मार्त्ताः सलिलेष्विव ॥ ७७ ॥
सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः ।
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य हि ॥ ७८ ॥
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् ।
ऋषीणाममि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥ ७९ ॥
परिपत्य यथा सूनुर्धरणीरेणुलुण्ठितः ।