पृष्ठम्:मनोहरकाव्यमाला.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति चितापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥ १६ ॥ पति चिन्तापरं दृष्ट्वा राज्ञी पप्रच्छ कारणम् । किं प्रभो विमनाभासिका चिन्ता व्रुहि सांप्रतम् ॥ २०॥ कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद । नाऽरातिर्विद्यते क्वाऽपि वलवान् दुर्वलोऽपि वा। वरुणोऽपि सुसंतुष्टः कृतकृत्योऽसि भूतले ॥ २१ ॥ चिन्तया क्षीयते देहो नास्ति चिन्ता समा मृतिः । त्यज्य तां नृपशार्दूल स्वस्थो भव विचक्षण ॥ २२ ॥ तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः । प्रोवाच किंचिच्चिन्तायाः कारणं च शुभाशुभम् ॥ २३ ॥ भोजनं न चकाराऽसौ चिन्ताविष्टस्तदा नृपः । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ॥ २४ ॥ प्रातरुत्थायचिन्तार्तो यावत्संध्यादिकाः क्रियाः। करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥ २५ ॥ क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । श्रागत्योवाच राजानं प्रणामन्तं पुनः पुनः ॥ २६ ॥ विश्वामित्र उवाच- राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवर्ण स्पृश राजेन्द्र सत्यवाग् भव सांप्रतम् ॥ २७॥ हरिश्चन्द्र उवाच- स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना । त्यक्त्वान्यत्र गमिष्यामि मा चिन्तां कुरु कौशिक |॥ २८॥ सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो । सुवर्णदक्षिणां दातुमशक्को ह्यधुना द्विज ॥ २६ ॥ दानं ददामि ते तावद् यावन्मे स्याद्धनागमः । पुनश्चेत् कालयोगेन तदा दास्यामि दक्षिणाम् ॥ ३०॥