पृष्ठम्:मनोहरकाव्यमाला.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यास उवाच- मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः । दत्तमित्युक्तवान्राज्यमविचार्य यदृच्छया ॥ ६ ॥ गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः । दक्षिणां देहि राजेन्द्र दानयोग्यं महामते । दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥१०॥ इत्युक्तस्तु तदा राजा तमुवाचाऽतिविस्मितः । ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना ॥ ११ ॥ दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् । दानपूर्त्यै प्रदास्यामि स्वस्थो भव तपोधन ॥ १२ ॥ विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् । हेमभारद्वयं साधं दक्षिणां देहि सांप्रतम् ॥ १३ ॥ दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः । तदैव सैनिकास्तस्य वीक्षमाणाः समागताः। दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥ १४ ॥ व्यास उवाच- श्रुत्वा तेषां वचो राजा नोक्त्वा किंचिच्छुभाशुभम् । चिन्तयन्वकृतं कर्म ययावंतःपुरे ततः ॥ १५ ॥ किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् । वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव ॥ १६ ॥ राज्यं सोपस्करं तस्मै मया सर्व प्रतिश्रुतम् । भारद्वयं सुवर्णस्य साधं च दक्षिणा पुनः॥ १७ ॥ किं करोमि मतिभ्रंष्टानज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥१८॥ 'न जाने दैवकार्य वै हा दैव किं भविष्यति।