पृष्ठम्:मनोहरकाव्यमाला.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११३ ) इत्युक्त्वा नृपतिः प्राह पुत्रं भार्या च माधवीम् । राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥ ३१ ॥ हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम् ॥ ३२ ॥ त्यक्त्वाऽयोध्यां गमिष्यामि कुत्रचित् वनगह्वरे । गृह्णात्विदं मुनिः सम्यग्राज्यं सर्व समृद्धिमत् ॥ ३३ ॥ इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमंदिरात् । विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥ ३४ ॥ अजन्तं भूपति वीक्ष्य भार्या पुत्रावुभावपि । चिन्तातुरौ सुदीनौ तौ जग्मतुः पृष्ठतस्तदा ॥ ३५ ॥ हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा। चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥ ३६ ॥ हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः । वञ्चितोऽसि महाराज विधिनाऽपण्डितेन ह ॥ ३७॥ सर्वे घर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् । विलोक्य भार्यया सार्धं पुत्रेण व महात्मना ॥ ३८॥ निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः ॥ ३६ ॥ निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् । गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥ ४० ॥ दक्षिणायाः सुवर्ण मे दत्त्वा गच्छ नराधिप । नाहंऽदास्यामि वा ब्रूहि मया त्यक्त्रं सुवर्णकम् ॥ ४१ ॥ राज्यं गृहाण वा सर्व लोभश्चेद्धृदि वर्तते । दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम् ॥ ४२ ॥ एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥ ४३ ।