पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५७

तेषामिति ॥ तेषामेकत्र मिलितानां देशाधिपस्नातको मान्यौ । राजस्नातकयोरपि स्नातक एव राजापेक्षया मान्यः । अतो राजशब्दोऽन्त्र पूर्वश्लोके न केवलजातिवचनः । क्षत्रियजात्यपेक्षया 'ब्राह्मणं दशवर्षे तु' इत्यनेन ब्राह्मणमात्रस्य मान्यत्वाभिधानात्स्नातकग्रहणवैयर्थ्यात् ॥ १३९ ॥

आचार्यादिशब्दार्थमाह-

उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः।
सकल्पं सरहस्सं च तमाचार्यं प्रचक्षते ॥ १४० ॥

उपनीयेति ॥ तैः शब्दैरिह शास्त्रे प्रायो व्यवहारात् । यो ब्राह्मणः शिष्यमुपनीय कल्परहस्यसहितां वेदशाखां सर्वामध्यापयति तमाचार्यं पूर्वे मुनयो वदन्ति । कल्पो यज्ञविद्या, रहस्यमुपनिषत् । वेदत्वेऽप्युपनिषदां प्राधान्यविवक्षया पृथङ्निर्देशः ॥ १४० ॥

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ १४१॥

एकदेशमिति ॥ वेदस्यैकदेशं मन्त्रं ब्राह्मणं च वेदरहितानि व्याकरणादीन्यङ्गानि यो वृत्त्यर्थमध्यापयति स उपाध्याय उच्यते ॥ १४१ ॥

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ १४२ ॥

निषेकादीनीति ॥ निषेको गर्भाधानं तेन पितुरयं गुरुत्वोपदेशः। गर्भाधानादीनि संस्कारकर्माणि पितुरुपदिष्टानि यथाशास्त्रं यः करोति, अन्नेन च संवर्धयति स विप्रो गुरुरुच्यते ॥ १४२ ॥

अन्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्यविगिहोच्यते ॥ १४३ ॥

अग्याधेयमिति ॥ आहवनीयाद्यम्युत्पादकं कर्माइयाधेयं, अष्टकादीन्पाकयज्ञान्, अग्निष्टोमादीन्यज्ञान्कृतवरणो यस्य करोति स तस्यविगिह शास्त्रेऽभिधीयते । ब्रह्मचारिधर्मेष्वनुपयुक्तमप्यत्विग्लक्षणमाचार्यादिवत्विजोऽपि मान्यत्वं दर्शयितुं प्रसङ्गादुक्तम् ॥ १४३ ॥

य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदाचन ॥ १४४ ॥

य आवृणोतीति ॥ य उभौ कौँ अवितथमिति वर्णस्वरवैगुण्यरहितेन सत्यरूपेण वेदेनापूरगति स माता पिता च ज्ञेयः। महोपकारकत्वगुणयोगादयमध्यापको मातापितृशब्दवाच्यस्तं नापकुर्यात् । कदाचनेति गृहीते वेदे ॥ १४४ ॥