पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५६ मनुस्मृतिः। [ अध्यायः २

दशाब्दाख्यमिति ॥ दश अब्दा आख्या यस्य तद्दशाब्दाख्यं पौरसख्यम् । अयमर्थः । एकपुरवासिनां वक्ष्यमाणविद्यादिगुणरहितानामेकस्य दशभिरब्दैज्येष्ठत्वेसत्यपि सख्यमाख्यायते । पुरग्रहणं प्रदर्शनार्थ तेनैकग्रामादिनिवासिनामपि स्यात् । गीतादिकलाभिज्ञानां पञ्चवर्षपर्यन्तं सख्यं, श्रोत्रियाणां त्र्यब्दपर्यन्तं, सपिण्डेष्वत्यन्ताल्पेनैव कालेन सह सख्यम् । अपिरेवार्थे । सर्वत्रोक्तकालादूर्ध्व ज्येष्टव्यवहारः॥ १३४॥

ब्राह्मणं दशवर्षे तु शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद्राह्मणस्तु तयोः पिता ॥ १३५ ॥

ब्राह्मणमिति ॥ दशवर्ष ब्राह्मणं शतवर्षं पुनः क्षत्रियं पितापुत्रौ जानीयात् । तयोर्मध्ये दशवर्षोऽपि ब्राह्मण एवं क्षत्रियस्य शतवर्षस्यापि पिता । तस्मात्पितृवदसौ तस्य मान्यः ॥ १३५ ॥

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ १३६ ॥

वित्तमिति ॥ वित्तं न्यायार्जितं धनं, बन्धुः पितृव्यादिः, वयोऽधिकवयस्कता, कर्म श्रौतं स्मात च, विद्या वेदार्थतत्त्वज्ञानं, एतानि पञ्च मान्यत्वकारणानि । एषां मध्ये यद्यदुत्तरं तत्तत्पूर्वस्माच्छ्रेष्ठमिति बहुमान्यमेलके बलाबलमुक्तम् ॥ १३६ ॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः॥१३७॥

पञ्चानामिति ॥ त्रिषु वर्णेषु ब्राह्मणादिषु पञ्चानां वित्तादीनां मध्ये यत्र पुरुषे पूर्वमप्यनेक भवति स एवोत्तरसादपि मान्यः । तेन वित्तबन्धुयुक्तो वयोधिकान्मान्यः । एवं वित्तादित्रययुक्तः कर्मवतो मान्यः । वित्तादिचतुष्टययुक्तो विदुषो मान्यः । गुणवन्ति चेति प्रकर्षवन्ति । तेन द्वयोरेव विद्यादिसत्त्वे प्रकर्षो मानहेतुः । शूद्रोऽपि दशमीमवस्थां नवत्यधिकां गतो द्विजन्मनामपि मानार्हः । शतवर्षाणां दशधा विभागे दशम्यवस्था नवत्यधिका भवति ॥ १३७ ॥

अयमपि पूजाप्रकारः प्रसङ्गादुच्यते-

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥१३८ ॥

चक्रिण इति ॥ चक्रयुक्तरथादियानारूढस्य, नवत्यधिकवयसः, रोगार्तस्य, भारपीडितस्य, स्त्रियाः, अचिरनिवृत्तसमावर्तनस्य, देशाधिपस्य, विवाहाय प्रस्थितस्य पन्थास्त्यक्तव्यः । त्यागार्थत्वाच ददातेर्न चतुर्थी ॥ १३८ ॥

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ १३९ ।।