पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः २

उपाध्यायान्दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥१४५॥

उपाध्यायानिति ॥ दशोपाध्यानपेक्ष्य आचार्यः, आचार्यशतमपेक्ष्य पिता, सहस्रं पितॄनपेक्ष्य माता गौरवेणातिरिक्ता भवति । अत्रोपनयनपूर्वकसावित्रीमात्राध्यापयिता आचार्योऽभिप्रेतस्तमपेक्ष्य पितुरुल्कर्षः। 'उत्पादकब्रह्मदात्रोः' इत्यनेन मुख्याचार्यस्य पितरमपेक्ष्योत्कर्ष वक्ष्यतीत्यविरोधः ॥ १४५ ॥

उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ १४६ ॥

उम्पादकेति ॥ जनकाचार्यौ द्वावपि पितरौ । जन्मदातृत्वात्। तयोराचार्यः पिता गुरुतरः । यस्माद्विप्रस्य ब्रह्मग्रहणार्थं जन्मोपनयनजन्म संस्काररूपं परलोके इहलोके च शाश्वतं नित्यम् । ब्रह्मप्राप्तिफलकत्वात् ॥१४६॥

कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूति तस्य तां विद्याद्यद्योनावभिजायते ॥ १४७॥

कामादिति ॥ मातापितरौ यदेनं बालकं कामवशेनान्योन्यमुत्पादयतः संभवमात्रं तत्तस्य पश्वादिसाधारणम् । यद्योनौ मातृकुक्षावभिजायतेऽङ्गप्रत्यङ्गानि लभते ॥ १४७ ॥

आचार्यस्त्वस्य यां जाति विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ १४८ ॥

आचार्य इति ॥ आचार्यः पुनर्वेदज्ञोऽस्य माणवकस्य यां जातिं यज्जन्म विधिवत्सावित्र्येति साङ्गोपनयनपूर्वकसावित्र्यनुवचनेनोत्पादयति सा जातिः सत्या अजरामरा च । ब्रह्मप्राप्तिफलत्वात् । उपनयनपूर्वकस्य वेदाध्ययनतदर्थज्ञानानुष्ठानैर्निष्कामस्य मोक्षलाभात् ॥ १४८ ॥

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥ १४९ ॥

अल्पं वेति ॥ श्रुतस्य श्रुतेनेत्यर्थः । उपाध्यायो यस्य शिष्यस्याल्पं वा बहु वा कृत्वा श्रुतेनोपकरोति तमपीह शास्त्रे तस्य गुरुं जानीयात् । श्रुतमेवोपक्रिया तया श्रुतोपक्रियया ॥ १४९॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ १५०॥

ब्राह्मस्येति ॥ ब्रह्मश्रवणार्थं जन्म ब्राह्ममुपनयनम् । स्वधर्मस्य शासिता वेदार्थ-