पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५३

इतश्च फलमाह-

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ १२१ ॥

अभिवादनशीलस्येति ॥ उत्थाय सर्वदा वृद्धाभिवादनशीलस्य वृद्धसेविनश्च आयुःप्रज्ञायशोबलानि चत्वारि सम्यक् प्रकर्षेण वर्धन्ते ॥ १२१ ॥

संप्रत्यभिवादनविधिमाह-

अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।
असौनामाहमसीति स्वं नाम परिकीर्तयेत् ॥ १२२ ।।

अभिवादात्परमिति ॥ वृद्धमभिवादयन् विप्रादिरभिवादात्परं अभिवादय इति शब्दोच्चारणानन्तरममुकनामाहमस्मीति स्वं नाम परिकीर्तयेत् । अतो नामशब्दस्य विशेषपरत्वात्स्वनामविशेषोच्चारणानन्तरमभिवादनवाक्ये नामशब्दोऽपि प्रयोज्य इति मेधातिथिगोविन्दराजयोरभिधानमप्रमाणम् । अतएव गोतमः-'स्वनाम प्रोच्याहमभिवादय इत्यभिवदेत्' । साङ्ख्यायनोऽपि 'असावहं भो इत्यात्मनो नामादिशेत्' इत्युक्तवान् । यदि च नामशब्दश्रवणात्तस्य प्रयोगस्तदा 'अकारश्चास्य नाम्नोऽन्ते' इत्यभिधानात्प्रत्यभिवादनवाक्ये नामशब्दोच्चारणं स्यान्न च तत्कस्यचिसंमतम् ॥ १२२॥

नामधेयस्य ये केचिदभिवादं न जानते ।
तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ १२३ ॥

नामधेयस्येति ॥ नामधेयस्य उच्चारितस्य सतो ये केचिदभिवाद्याः संस्कृतानभिज्ञतयाभिवादमभिवादार्थ न जानन्ति तान्प्रत्यभिवादनेऽप्यसमर्थत्वात्प्राज्ञ इत्यभिवाद्यशक्तिविज्ञोऽभिवादयिताभिवादयेऽहमित्येवं ब्रूयात् । स्त्रियः सर्वास्तथैव ब्रूयात् ॥ १२३॥

भो शब्द कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः॥१२४॥

भोःशब्दमिति ॥ अभिवादने यन्नाम प्रयुक्तं तस्यान्ते भोःशब्द कीर्तयेदभिवाघसंबोधनार्थम् । अतएवाह-नाम्नामिति ॥ भो इत्यस्य यो भावः सत्ता सोऽभिवाद्यनाम्नां स्वरूपभाव ऋषिभिः स्मृतः । तस्मादेवमभिवादनवाक्यम् 'अभिवादये शुभशर्माहमस्मि भोः ॥ १२४ ॥

आयुष्मान्भव सौम्येति वाच्यो विप्रोभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥१२५॥

आयुष्मानिति ॥ अभिवादने कृते प्रत्यभिवादयित्रा अभिवादको विप्रादिः आयुष्मान्भव सौम्य' इति वाच्यः। अस्य चाभिवादकस्य यन्नाम तस्यान्ते योऽकरादिः स्वरो नाम्नामकारान्तत्वनियमाभावात्स प्लुतः कार्यः । स्वरापेक्षं चेदकारान्तत्वं