पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ मनुस्मृतिः । [ अध्यायः २

यमेव तु शुचिं विद्यानियतब्रह्मचारिणम् ।
तस्सै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ ११५ ॥

यमिति ॥ यमेव पुनः शिष्यं शुचिं नियतेन्द्रियं ब्रह्मचारिणं जानासि तसै विद्यारूपनिधिरक्षकाय प्रमादरहिताय मां वद ॥ ११५ ॥

ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥११६ ॥

ब्रह्मेति ॥ यः पुनरभ्यासार्थमधीयानादन्यं वा कंचिदध्यापयतस्तदनुमतिरहितं वेदं गृह्णाति स वेदस्तेययुक्तो नरकं गच्छति तस्मादेतन्न कर्तव्यम् ॥ ११६ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ ११७ ॥

लौकिकमिति ॥ लौकिकमर्थशास्त्रादिज्ञानं, वैदिकं वेदार्थज्ञानं, आध्यात्मिकं ब्रह्मज्ञानं, यस्मात्तु गृह्णाति तं बहुमान्यमध्ये स्थितं प्रथममभिवादयेत् । लौकिकादिज्ञानदातॄणामेव त्रयाणां समवाये यथोत्तरं मान्यत्वम् ॥ ११७ ॥

सावित्रीमात्रसारोऽपि वरं विप्रः सुयत्रितः।
नायत्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ ११८ ॥

सावित्रीति ॥ सावित्रीमात्रवेत्तापि वरं सुयन्त्रितः शास्त्रनियमितो विप्रादिर्मान्यः नायन्त्रितो वेदत्रयवेत्तापि निषिद्धभोजनादिशीलः प्रतिपिद्धविक्रेता च । एतच्च प्रदर्शनमात्रम् । सुयन्त्रितशब्देन विधिनिषेधनिष्टत्वस्य विवक्षितत्वात् ॥ ११८॥

शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥ ११९ ॥

शय्येति ॥ शय्या चासनं च शय्यासनं 'जातिरप्राणिनाम्' इति द्वन्द्वैकव । तस्मिन्छ्रेयसा विद्याद्यधिकेन गुरुणा चाध्याचरिते साधारण्येन स्वीकृते च तत्कालमपि नासीत । स्वयं च शय्यासनस्थो गुरावागते उत्थायाभिवादन कुर्यात् ॥ ११९ ॥

अस्यार्थवादमाह-

ऊर्ध्वं प्राणा द्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १२० ॥

ऊर्ध्वमिति ॥ यस्माद्यूनोऽल्पवयसो वयोविद्यादिना स्थविरे आयति आगच्छति सति प्राण ऊर्ध्वं उत्क्रामन्ति देहाइहिर्निर्गन्तुमिच्छन्ति तान्वृद्धस्य प्रत्युत्थानाभिवादाभ्यां पुनः सुस्थान्करोति । तस्माद्वृद्धस्य प्रत्युत्थायाभिवादनं कुर्यात् ॥२०॥