पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


मनुस्मृतिः । [अध्यायः २

व्यञ्जनान्तेऽपि नाम्नि संभवति । पूर्वं नामगतमक्षरं संश्लिष्टं यस्य स पूर्वाक्षरस्तेन नागन्तुरपकृष्य चाकारादिः स्वरः प्लुतः कार्यः । एतच्च 'वाक्यस्य टेः प्लुत उदात्तः' इत्यस्यानुवृत्तौ 'प्रत्यभिवादेऽशूद्धे' इति प्लुतं स्मरन्पाणिनिः स्फुटमुक्तवान् । व्याख्यातंच वृत्तिकृता वामनेन-'टेरिति किम्, व्यञ्जनान्तस्यैव टेः प्लुतो यथा स्यात्' इति । तस्मादीदृशं प्रत्यभिवादनवाक्यं 'आयुष्मान्भव सौम्य शुभशर्मन्' एवं क्षत्रिशस्य बलवर्मन्, एवं वैश्यस्य वसुभूते । 'प्लुतो राजन्यविशां वा' इति कात्यायनवचनात्क्षत्रियवैश्ययोः पक्षे प्लुतो न भवति । शूद्रस्य प्लुतो न कार्यः, 'अशूद्रे' इति पाणिनिवचनात् । 'स्त्रियामपि निषेधः' इति कात्यायनवचनास्त्रियामपि प्रत्यभिवादनवाक्ये न प्लुतः। गोविन्दराजस्तु ब्राह्मणस्य नाम्नि शर्मोपपदं नित्यं प्रागभिधाय प्रत्यभिवादनवाक्ये 'आयुष्मान् भव सौम्य भद्र' इति निरुपपदोदाहरणसोपपदोदाहरणानभिज्ञत्वमेव निजं ज्ञापयति । धरणीधरोऽपि आयुष्मान् भव सौम्य, इति संबुद्धिविभक्त्यन्तं मनुवचनं पश्यन्नप्यसंबुद्धिप्रथमैकवचनान्तममुकशमत्युदाहरन्विचक्षणैरप्युपेक्षणीय एव ॥ १२५ ॥

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः॥ १२६ ॥

यो न वेत्तीति ॥ यो विप्रोऽभिवादनस्यानुरूपं प्रत्यभिवादनं न जानात्यसावभिवादनविदुषापि स्वनामोच्चारणायुक्तविधिना शूद्र इव नाभिवाद्यः । अभिवादयेऽहमिति शब्दोच्चारणमात्रं तु चरणग्रहणादिशून्यमनिषिद्धम् । प्रागुक्तत्वात् ॥१२६

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ १२७ ॥

ब्राह्मणमिति ॥ समागम्य समागमे कृते अभिवादकमवरवयस्कं समानवयस्कमनभिवादकमपि ब्राह्मणं कुशलं, क्षत्रियमनामयं, वैश्यं क्षेमं, शूद्रमारोग्यं पृच्छेत् । अतएवापस्तम्बः -'कुशलमवरवयसं समानवयसं वा विप्रं पृच्छेत् । अनामयं क्षत्रियं क्षेमं वैश्यं आरोग्यं शूद्रम् । अवरवयसमभिवादकं वयस्यमनभिवादकमपीति मन्वर्थमेवापस्तम्बः स्फुटयतिस्म । गोविन्दराजस्तु प्रकरणात्प्रत्यभिवादकस्यैव कुशलादिप्रश्नमाह । तन्न, अभिवादकेन सह समागमस्यानुप्राप्तत्वात् । समागम्येति निष्प्रयोजनानुवादप्रसङ्गात् । अतः कुशलक्षेमशब्दयोरनामयारोग्यपदयोश्च समानार्थत्वाच्छब्दविशेषोच्चारणमेव विवक्षितम् ॥ १२७ ॥

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ १२८ ॥

अवाच्य इति ॥ प्रत्यभिवादनकाले अन्यदा च दीक्षणीयातःप्रभृत्यावभृथस्रानात्कनिष्टोऽपि दीक्षितो नाना न वाच्यः, किंतु भोभवच्छब्दपूर्वक दीक्षितादिशब्दैरुत्कर्षाभिधायिभिरेव धार्मिकोऽभिभाषेत । भो दीक्षित, इदं कुरु, भवता यजमानेन इदं क्रियतामिति ॥ १२८ ॥