पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [ अध्यायः १२ जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्व सुखं दुःखं च जन्मसु ॥ १३ ॥ जीवसंज्ञ इति ॥ जीवशब्दोऽयं महत्परः, येनेनि करणविभक्तिनिर्देशात् । उत्तर- श्लोके च तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च' इति तच्छन्देन प्रत्यवमर्शाच्छ- रीरक्षेत्रज्ञातिरिक्तोऽन्तःशरीरमात्माख्यत्वादात्मा जीवाख्यः सर्वक्षेत्रज्ञानां सहज आत्मा। तत्प्राप्तेस्तैस्तस्य विनियोगात् । येनाहंकारेन्द्रियरूपतया परिणतेन कारण- भूनेन क्षेत्रज्ञः प्रतिजन्म सुखं दुःखं चानुभवति ॥ १३ ॥ तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः॥१४॥ ताविति ॥ तौ द्वौ महत्क्षेत्रज्ञौ पृथिव्यादिपञ्चभूतसंपृक्तौ वक्ष्यमाणं सर्वलोक- वेदस्मृतिपुराणादिप्रसिद्ध्या तमिति निर्दिष्टं परमात्मानमुत्कृष्टापकृष्टसत्त्वेषु व्यब- स्थितमाश्रित्य तिष्ठतः ॥ १४ ॥ असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥१५॥ असंख्या इति ॥ अस्य परमात्मनः शरीरादसंख्यमूर्तयो जीवाः क्षेत्रज्ञशब्दे- नानन्तरमुक्ता लिङ्गशरीरावच्छिन्ना वेदान्त उक्तप्रकारेणानेरिव स्फुलिङ्गा निःस- रन्ति । या मूर्नय उत्कृष्टापकृष्टभूताग्निदेवरूपतया परिणतानि सर्वदा कर्मसु प्रेस्यन्ति ॥ १५॥ पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥१६॥ पञ्चभ्य इति ॥ पञ्चभ्य एव पृथिव्यादिभूतेभ्यो दुष्कृतकारिणां मनुष्याणां पीडानुभवप्रयोजकं जरायुजादिदेहव्यतिरिक्तं दुःखसहिष्णु शरीरं परलोके जा- यते ॥ १६॥ तेनानुभूयता यामीः शरीरेणेह यातनाः। ताखेव भूतमात्रासु प्रलीयन्ते विभागशः॥१७॥ तेनेति ॥ तेन निर्गतेन शरीरेण ता यमकारिता यातना दुष्कृतिनो जीवाः सूक्ष्मानुभूतस्थूलशरीरनाशे तेष्वेवारम्भकभूतभागेषु यथास्वं प्रलीयन्ते । तत्सं- योगिनो भूत्वा अवतिष्ठन्त इत्यर्थः ॥ १७ ॥ सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् । व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥ १८॥ सोऽनुभूयेति ॥ शरीरी भूतसूक्ष्मादिलिङ्गशरीरावच्छिन्नो निषिद्धशब्दस्पर्शरूप- रसगन्धाख्यविषयोपभोगजनितयमलोकदुःखाद्यनुभूयानन्तरं भोगादपहतपाप्मा तावेव महत्परमात्मानौ महावीरों द्वावाश्रयति ॥ १८ ॥