पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। तो धर्म पश्यतस्तस्य पापं चातन्द्रिता सह । याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ॥ १९ ॥ ताविति ॥ तो महत्परमात्मानौ अनलसौ तस्य जीवस्य धर्म भुक्तशेषं च पायं मह विचारयतः । याभ्यां धर्माधर्माभ्यां युक्तो जीवः परलोकेहलोकयोः सुखदुःखें प्राप्नोति ॥ १९॥ यद्याचरति धर्म स प्रायशोऽधर्ममल्पशः। तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ २० ॥ यदीति ॥ स यदि जीवो मानुपदशायां बाहुल्येन धर्ममनुतिष्ठति अल्पं चा- धर्म तदा तैरेव पृथिव्यादिभूतैः स्थूलशरीररूपतया परिणतैर्युक्तः स्वर्गसुखम- नुभवति ॥२०॥ यदि तु प्रायशोऽधर्म सेवते धर्ममल्पशः। तैर्भूतः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥२१॥ यदीति ॥ यदि पुनः स जीवो मानुषदशायां बाहुल्येन पापमनुतिष्ठति अल्पं च पुण्यं तदा तैरेव भूतैर्मानुषदेहरूपतया परिणतैस्त्यक्तो मृतः सन्ननन्तर पञ्चभ्य एव मात्राभ्य इत्युक्तरीत्या यातनानुभवोचितसंपातकठिनदेहो यामीः पीडा अनुभवति ॥ २१ ॥ यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मपः । तान्येव पञ्च भूतानि पुनरप्येति भागशः ॥२२॥ यामीरिति ॥सजीवो यमकारितास्ताः पीडास्तेन कठिनदेहेनानुभूय ततो भोगे- नापहतपाप्मा तान्पञ्च जरायुजादिशरीरारम्भकान्पृथिव्यादिभूतभागानधितिष्ठति । मानुषादिशरीरं गृह्णातीत्यर्थः ॥ २२ ॥ एता दृष्ट्वास जीवस्य गतीः स्खेनैव चेतसा । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः ॥ २३ ॥ एता इति ॥ अस्य जीवस्य एता धर्माधर्महेतुकाः स्वर्गनरकायुपभोगोचितनि- यदेहप्राप्तीरन्तःकरणे ज्ञात्वा धर्मानुष्ठाने मनः सदा संगतं कुर्यात् ॥ २३ ॥ सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् । बाप्येमास्थितो भावान्महान्सर्वानशेषतः॥२४ ।। सत्त्वमिति ॥ सत्वरजस्तमांसि त्रीणि वक्ष्यमाणगुणलक्षणानि आत्मोपकारकत्वा- दात्मनो महतो गुणाजानीयात् । यैासो महानिमानस्थावरजङ्गमरूपान्पदार्थान्निः- शेषेण व्याप्य स्थितः ॥२४॥