अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता । ४६९
मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ ८॥
[त्रिविधं च शरीरेण वाचा चैव चतुर्विधम् ।
मनसा त्रिविधं कर्म दश धर्मपथांस्त्यजेत् ॥]
मानसमिति ॥ सनसा यत्सुकृतं दुप्कृतं वा कर्म कृतं तत्फलं सुखदुःखमिह
जन्मनि जन्मान्तरे वा मनसैवायमुपभुते । एवं वाचा कृतं शुभाशुभं वारद्वारेण
मधुरगद्गदभाषिन्दादिना, भारीरं शुभाशुभं शरीरद्वारेण स्रक्वन्दनादिप्रियो-
पाभोगव्याधितत्वादिनानुभवति । तस्मात्प्रयत्नेन शारीरमानसवाचिकानि धर्म-
रहिनानि च वर्जयेन्न कुर्याच ॥ ८ ॥
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ ९ ॥
[ शुभैः प्रयोगैर्देवत्वं व्यामिश्रर्मानुषो भवेत् ।
अशुभैः केवलैश्चैव तिर्यग्योनिषु जायते ॥]
गरीरेति ॥ अद्यपि पापिष्टानां गारीरवाचिकमानसिकान्येव त्रीणि पापानि संभ-
वन्ति तथापि स यदि प्रायशोऽधर्ममेव सेवते, धर्ममल्पमिति बाहुल्याभिप्राये-
गणेति व्याख्यातम् , बाहुल्येन शरीरकर्मजपापैर्युक्तः स्थावरत्वं मानुषः प्राप्नोति ।
बाहुल्येन वाकृतैः पक्षित्वं मृगत्वं वा । बाहुल्येन मनसा कृतैश्चाण्डालाडिन्त्र
प्राप्नोति ॥ ९॥
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १० ॥
वाग्दण्ड इति ॥ दमनं दण्डः वाङ्मनःकायानां दण्डा तिषिद्धाभिधानासत्संक-
रूपप्रनिषिद्धव्यापारत्यागेन बुद्धाववस्थिताः स त्रिदण्डीत्युच्यते । ननु दण्डनयधार-
मात्रेणेत्याभ्यन्तरदण्डनयग्रशंसा ॥ १० ॥
त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥ ११ ॥
त्रिदण्डमिति ॥ एवं निषिद्धवागादीनां सर्वभूतगोचरतया दमनं कृत्वतहमनार्थ-
संवा कामक्रोधौ तु नियम्य ततो मोक्षावाप्तिलक्षणां सिद्धिं मनुष्यो लभते ॥ ११ ॥
कोऽसौ सिद्धिमानोतीत्यत आह-
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२ ॥
य इति ॥ अस्य लोकसिद्धस्यात्मोपकारकत्वादात्मनः शरीराख्यस्य यः कर्मसु
प्रवर्तयिता तं क्षेत्रनं पण्डिता वदन्ति । यः पुनरेप व्यापारान्करोति शरीराख्यः
८ पृथिव्यादिभूनारब्धवाद्भुतान्म बेनि पण्डितैरुच्यते ॥ १२ ॥
मनु०४०
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
