पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५००

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४६८ मनुस्मृतिः। [अध्यायः १२ स तानिति ॥ स धर्मप्रधानो मनोरपत्यात्मा भृगुरस्य सर्वस्य कर्मसंबन्धस्य फलनिश्चयं शृणुतेति तान्महर्षीनब्रवीत् ॥ २ ॥ शुभाशुभफलं कर्म मनोवाग्देहसंभवम् । कर्मजा गतयो नृणामुत्तमाधममध्यमाः॥३॥ शुभेति ॥ मनोवाग्देहहेतुकं कर्म विहितनिपिद्धरूपं सुखदुःखफलकं तजन्या एव मनुष्यतिर्यगादिभावनोत्कृष्टमध्यमाधमापेक्षया मनुष्याणां गतयो जन्मान्तर- प्राप्तयो भवन्ति । कर्मशब्दश्चात्र न कायचेष्टायामेव किंतु ममेदं स्वमिति संकल्प- रूपयोगादिध्यानाचरणादावपि क्रियामात्रे वर्तते ॥ ३ ॥ तस्पेह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥४॥ तस्येति ॥ तस्य देहिसंबन्धिनः कर्मण उत्कृष्टमध्यमाधमतया त्रिप्रकारस्यापि मनोवाकायाश्रितस्य वक्ष्यमाणदशलक्षणोपेतस्य मन एव प्रवर्तकं जानीयात् । मनसा हि संकल्पितमुच्यते क्रियते च । तथा तैत्तिरीयोपनिषदि तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति' इति ॥ ४ ॥ तानि दशलक्षणानि कर्माणि दर्शयितुमाह- परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥५॥ परद्रव्येष्विति ॥ कथं परधनमन्यायेन गृह्णामीत्येवं चिन्तनम् , मनसा ब्रह्मव- धादि निषिद्धाकाङ्क्षा, नास्ति परलोकः देह एवात्मेत्येतद्हश्चेत्येवं त्रिप्रकारमशुभ- फलं मानसं कर्म । एतत्रयविपरीतबुद्धिश्च त्रिविधं शुभफलं मानसं कर्म । 'शुभा- शुभफलं कर्म' इत्युभयस्यैव प्रक्रान्तत्वात् ॥ ५॥ पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः। असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ ६॥ पारुष्यमिति ॥ अप्रियाभिधानं, असत्यभाषणं, परोक्षे परदूषणकथनं, सत्य- स्यापि राजदेशपौरवार्तादेनिःप्रयोजनं वर्णनम्, इत्येवं चतुःप्रकारमशुभफलं वाचिकं कर्म भवेत् । एतद्विपरीतं प्रियसत्यपरगुणाभिधानं श्रुतिपुराणादौ च राजादिचरितकथनं शुभफलम् ॥ ६ ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः। परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥७॥ अदत्तानामिति ॥ अन्यायेन परस्त्रग्रहणमशास्त्रीयहिंसा परदारगमनमित्येवं त्रिप्रकारमशुभफलं शारीरं कर्म । एत्तद्विपरीतं त्रयं शुभफलम् ॥ ७ ॥