पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। ऋगिति ॥ ऋक्संहितां मनब्राह्मणात्मिकां नतु मनमानात्मिकां अनन्तरं 'वेदे त्रिवृति' इति प्रत्यवमर्शात् । यजुषां वा मन्त्रब्राह्मणानां संहितां साम्नां वा ब्राह्म- गोपनिषत्संहितां वारत्रयमभ्यस्य सर्वपापैः प्रमुक्तो भवति ॥ २६२ ॥ यथा महाइदं प्राप्य क्षिप्तं लोष्टं विनश्यति । तथा दुश्चरितं सर्व वेदे त्रिवृति मञ्जति ॥ २६३ ।। यथेति ॥ ऋगाद्यात्मना बिरावर्तत इति त्रिवृत् । यथा महादं प्रविश्य लोष्टं विशीर्यते तथा सर्व दुश्चरितं त्रिवृति वेदे विनश्यति ॥ २६३ ॥ त्रिवृत्वमेवाह- ऋचो यजूंषि चान्यानि सामानि विविधानि च । एष ज्ञेयस्त्रिद्वेदो यो वेदैनं स वेदवित् ॥ २६४ ॥ ऋच इति ॥ ऋच ऋमन्त्राः, यपि यजुर्मत्राः, सामान बृहद्रथन्तरादीन नानाप्रकाराण्यन्यानि एषां त्रयाणां पृथक् पृथक् मत्रब्राह्मणानि एष त्रिवेदो ज्ञातव्यः । य एनं वेद स वेदविद्भवति ॥ २६४ ॥ आद्यं यत्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता। स गुह्योऽन्यस्त्रिबुद्धेदो यस्तं वेद स वेदवित् ॥ २६५ ।। इति मानवे धर्मशास्त्रे भृगुणोक्तायां संहितायामेकादशोऽध्यायः ॥ ११ ॥ आद्यमिति ॥ सर्ववेदानामाद्यं यद्ब्रह्म वेदसारं अकारोकारमकारात्मकत्वेन त्र्यक्षर यत्र त्रयो वेदाः स्थिताः सोऽन्यस्त्रिवृद्वेदः प्रणवाख्यो गुह्यो गोपनीयः, वेदमत्र- श्रेष्ठत्वात्, परमार्थाभिधायकत्वात्परमार्थकत्वेन धारणजपाभ्यां मोक्षहेतुत्वाच्च । यस्तं स्वरूपतोऽर्थतश्च जानाति स वेदवित् ॥ २६५ ॥ प्रायश्चित्ते बहुमुनिमता- लोचनाद्यन्मयोक्तं सव्याख्यानं खलु मुनिगिरां तद्भजध्वं गुणज्ञाः ॥ नैतन्मेधाति- थिरभिदधे नापि गोविन्दराजो व्याख्यातारो न जगुरपरेऽप्यन्यतो दुर्लभं वः॥१॥ इति श्रीकुल्लुकभट्टविरचिताया मन्वर्थमुक्तावल्या मनुवृत्तावेकादशोऽध्यायः ॥ ११ ॥ अथ द्वादशोऽध्यायः। चातुर्वर्ण्यस्य कृत्लोऽयमुक्तो धर्मस्त्वयानघ । कर्मणां फलनिवृत्तिं शंस नस्तत्त्वतः पराम् ॥१॥ चातुर्वर्ण्यस्येति ॥ हे पापरहित, ब्राह्मणादिवर्णचतुष्टयस्य सान्तरप्रभवस्यायं धर्म- स्त्वयोक्तः । इदानीं कर्मणां शुभाशुभफलप्राप्तिं परां जन्मान्तरप्रभवां परमार्थरू- पामस्माकं ब्रूहीति महर्पयो भृगुमवोचन् ॥ १ ॥ स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः । अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ २॥