पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [अध्यायः ११ 3 मन्त्रः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः। सुगुर्वप्यपहन्त्येनो जात्रा वा नम इत्युचम् ॥ २५६ ॥ मन्त्रेरिति ॥ देवकृतस्य' इत्यादिभिः शाकलहोममन्त्रः संवत्सरं घृतहोमं कृत्वा 'नम इन्द्रश्व' इत्येतां वा ऋचं संवत्सरं जपित्वा महापातकमपि पापं द्विजा. तिरपहन्ति ॥ २५६ ॥ महापातकसंयुक्तोऽनुगच्छेगाः समाहितः । अभ्यस्याब्दं पावमनीभैक्षाहारो विशुद्ध्यति ॥२५७ ॥ महापातकेति ॥ ब्रह्महत्यादिमहापातकयुक्तो भिक्षालब्धाहारो वर्षमेकं संयते- न्द्रियो गवामनुगमनं कुर्वन् 'यः पावमानीरध्येति' इत्यादिऋचोऽन्वहमभ्यासेन जपित्वा तस्मात्पापाद्विशुद्धो भवति ॥ २५७ ॥ अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्विभिः ॥ २५८ ॥ अरण्य इति ॥ त्रिभिः पराकैः पूतो मन्त्रब्राह्मणात्मिकां वेदसंहिता अरण्ये वार- अयमभ्यस्य वा प्रयतो बाह्याभ्यन्तरशौचयुक्तः सर्वैर्महापातकैर्मुच्यते ॥ २५८ ॥ त्र्यहं तूपवसेधुक्तस्विरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्विर्जपित्वाघमर्षणम् ॥ २५९ ॥ व्यहमिति ॥ त्रिरात्रमुपवसन्संयतः प्रत्यहं प्रातमध्याह्नसायंकालेषु स्नानं कुर्वन् विषवणस्नानकाल एव जले निमज्य 'ऋतं च सत्यं च' इति सूक्तमघमर्षणं निरावृत्तं जपित्वा सर्वैः पापैर्मुच्यते । तत्र गुरुलघुपापापेक्षया पुरुषशक्त्याद्यपेक्षया चावर्तनीयम् ॥ २५९ ॥ यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः । तथाऽघमर्षणं मुक्तं सर्वपापापनोदनम् ॥ २६० ॥ यथेति ॥ यथाऽश्वमेधयागः सर्वयागश्रेष्ठः सर्वपापक्षयहेतुस्तथाघमर्षणसूक्तमपि सर्वपापक्षयहेतुरित्यवमर्षणसूक्तोत्कर्षः ॥ २६० ॥ हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः । ऋग्वेदं धारयन्वित्रो नैनः प्राप्नोति किंचन ॥२६१॥ हवेति ॥ भूरादिलोकत्रयमपि हत्वा महापातक्यादीनामप्यन्नमश्चन् ऋग्वेदं धारयन्विप्रादिर्न किंचित्पापं प्राप्नोति ॥ २६१ ॥ ऋग्वेदं रहस्यप्रायश्चित्तार्थमुक्तं ततश्च रहस्यपापे कृते ऋक्संहितां मन्त्रब्राह्मणा- त्मिकामभ्यसेत्तदाह- ऋक्संहितां निरभ्यस्य यजुषां वा समाहितः । साम्नां वा सरहसानां सर्वपापैः प्रमुच्यते ॥ २६२ ।।