पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४२९ दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् । हिंसया व्याधिभूयस्त्वमरोगित्वमहिंसया ॥] एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जडमूकान्धवधिरा विकृताकृतयस्तथा ॥ ५२ ॥ सुवर्णेति ॥ पिशुन इति ॥ अन्नहर्तेति ॥ एवमिति ॥ ब्राह्मणसुवर्णचौरः कुत्सि- तनखत्वं प्राप्नोति । निषिद्धसुरापः श्यावदन्तता, ब्रह्महा क्षयरोगित्वं, गुरुभाया- गामी विकोशमेहनत्वं। पिशुनो विद्यमानदोषाभिधायी दुर्गन्धिनासत्वं, अविद्य- मानदोषाभिधायको दुर्गन्धिमुखत्वं, धान्यचौरोऽङ्गहीनत्वं, धान्यादेरपदव्येण मिश्रणकर्तातिरिक्ताङ्गत्वं, अन्नचौरो मन्दानलत्वं, अननुज्ञाताध्यायी मूकत्वं, वस्त्र- चौरः श्वेतकुष्ठत्वं, अश्वचौरः खञ्जत्वम् । एवं बुद्धिवाक्चक्षुःश्रोत्रविकला विकृत. रूपाः साधुविगर्हिताश्च प्राग्जन्मार्जितोपभुक्तदुष्कृतशेपेणोत्पद्यन्ते । 'दीपहर्ता भवेदन्धः काणो निर्वापकस्तथा । हिंसारुचिः सदा रोगी वाताङ्गः पारदारिकः ॥' ॥४९॥ ५० ॥ ५० ॥ ५२ ।। चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः॥ ५३॥ चरितव्यमिति ॥ यस्मादनिष्कृतमनाशितमेनो यैस्तेऽनिष्कृतैनसोऽकृतप्राय- श्चित्ताः परलोकोपभुक्तदुष्कृतशेषेण निन्द्यैर्लक्षणैः कुनखित्वादिभिर्युक्ता जायन्ते । तसाद्विशुद्धये पापनिहरणार्थ प्रायश्चित्तं सदाकर्तव्यम् । एवं 'भिन्ने जुहोति' इतिवन्न नैमित्तिकमात्रं प्रायश्चित्तं किंत्वनिष्कृतैनस इत्युपादानात्तथा विशुद्धये चरितव्य- मित्युपदेशात्पापक्षयार्थिन एवाधिकारः। तथाहि । प्रायश्चित्तं हि चरितव्यमिति विधावधिकारापेक्षायां फलमात्रे निर्देशादिति रात्रिसत्रन्यायेन श्रूयमाणमेव विशुद्धय इति फलमधिकारिविशेषणं युक्तम् । इममेवाथै स्फुटयति याज्ञवल्क्यः-- 'विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनम- च्छति ॥ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये ॥' पतनमृच्छति पापं प्राप्नोती. त्यर्थः । विशुद्धये पापविनाशाय । 'बहून्वर्षगणान्धोरान्नरकान्प्राप्य तत्क्षयात् । संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान्॥' इत्यादिना महापातक्यादीनां नर- कादिप्राप्तिं वक्ष्यति । न तन्नैमित्तिकमात्रत्वं प्रायश्चित्तानां संगच्छते । तस्माद्ब्रह्म- वधादिजनितपापक्षयार्थिन एव प्रायश्चित्तविधावधिकार इति ज्ञेयम् ॥ ५३ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ ५४॥ ब्रह्महत्येति ॥ ब्राह्मणप्राणवियोगफलको व्यापारो ब्रह्महत्या स च साक्षादन्यं वा नियुज्य तथा गोहिरण्यग्रहणादिनिमित्तकार्यकस्यापि तदुद्देशेन ब्राह्मण- मरणे ब्रह्महत्या । नन्वेवमिषुकारस्थापीषूत्पादनद्वारेण तथा वध्यस्यापि हन्तृगतम.