पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४३० मनुस्मृतिः। [अध्यायः ११ न्यूत्पादनद्वारा ब्रह्महत्या स्यात् । उच्यते । शास्त्रतो यस्य ब्राह्मणहन्तृत्वं प्रतीयते स एव ब्रह्महन्ता । अतएव शातातप: 'गोभूहिरण्यग्रहणे स्वीसंबन्धकृतेऽपि वा । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' एवं चान्यान्यपि शास्त्रीयाण्येव ब्रह्मवधनिमित्सानि ज्ञेयानि । 'तथा रागाद्वेषात्प्रमादाद्वा स्वतः परत एव वा। ब्राह्मणं घातयेद्यस्तु तमाहुब्रह्मघातकम् ॥' इति प्रयोजकस्यापि हन्तृत्वं शास्त्रीयम् । तथा निषिद्धसुरापानं ब्राह्मणसुवर्णहरणम् , गुरुभार्यागमनमेतैश्च सह संसर्ग. संवत्सरेण पततीत्येतानि महापातकान्याहुः। महापातकसंज्ञा चेयं वक्ष्यमाणस्यो- पपातकादिसंज्ञालाघवार्थम् ॥ ५४ ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोचालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ५५ ॥ अनृतमिति ॥ जात्युत्कर्षनिमित्तमुत्कर्षभाषणं यथा ब्राह्मणोऽहमिति अब्राह्मणो ब्रवीति, राजनि वा स्तेनादीनां परेषां मरणफलकं दोपाभिधानं, गुरोश्चानृताभि- शंसनम् । तथाच गौतमः--'गुरोरनृताभिशंसनम् इति । महापातकसमानीत्ये- तानि ब्रह्महत्यासमानीति ॥ ५५ ॥ ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः। गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ ५६ ॥ ब्रह्मोज्झतेति ॥ ब्रह्मणोऽधीतवेदस्यानभ्यासेन विस्मरणम् , असच्छास्त्राश्रयणेन वेदकुत्सनम् , साक्ष्ये मृषाभिधानम् , मित्रस्याब्राह्मणस्य वधः, निषिद्धस्य लशु- नादेर्भक्षणम्, अनाद्यस्य पुरीपादेरदनम् । मेधातिथिस्तु न भोक्ष्यत इति संकल्प्य यद्भुज्यते तदनाद्यमित्याचष्टे । एतानि सुरापानसमानि ॥ ५६ ॥ निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ५७ ॥ निक्षेपस्येति ॥ ब्राह्मणसुवर्णव्यतिरिक्तनिक्षेपस्य हरणं तथा मनुष्यतुरगरूप्य- भूमिहीरकमणीनां हरणं सुवर्णस्तेयतुल्यम् ॥ ५७ ॥ रेत सेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः॥ ५८ ॥ रेतःसेक इति ॥ सोदर्यभगिनीकुमारीचण्डालीसखिपुत्रभार्यासु यो रेतःसेकस्तं गुरुभागमनसमानमाहुः। एतेषां भेदेन समीकरणं यद्येन समीकृतं तस्य तेन प्रायश्चित्तार्थम् । यत्कौटसाक्ष्यसुहृद्धयोः सुरापानसमीकरणं ब्रह्महत्याप्रायश्चित्तं वक्ष्यति तद्विकल्पार्थम् , यत्पुनर्गुरोरलीफनिर्बन्धस्य ब्रह्महत्यासमीकृतस्य पुनरुप- रिष्टाब्रह्महत्याप्रायश्चित्तनिर्देशः तत्समीकृतानां न्यूनप्रायश्चित्तं भवतीति ज्ञापना- थम् । तथा च लोके राजसमः सचिव इत्युक्ते सचिवस्य न्यूनतैव गम्यते । अत्री- पदेशिकप्रायश्चित्तेऽतिदिश्यतां प्रायश्चित्तं तन्यूनं प्रायश्चित्तं समीकृतानां च ॥५८॥