पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ मनुस्मृतिः। [ अध्यायः ११ अकामत इति ॥ अबुद्धिकृते पापे प्रायश्चित्तं भवतीत्याहुः पण्डिताः। एके पुनराचार्याः कामतः कृते पापे प्रायश्चित्तं भवतीत्याहुः। एतच्च पृथकृत्याभिधानं प्रायश्चित्तगौरवार्थ श्रुतिनिदर्शनादिति । 'इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्त- मश्लीला बागेत्यावदत्स प्रजापतिमुपाधावत्तस्मात्तमुपहव्यं प्रायच्छत्' इति । अ- स्यार्थः । इन्द्रो यतीन् बुद्धिपूर्वकं श्वभ्यो दत्तवान् , स प्रायश्चित्ताथै प्रजापतिस- मीपमगमत् , तस्मै प्रजापतिरुपहव्याख्यं कर्म प्रायश्चित्तं दत्तवान् । अतः काम- कारकृतेऽप्यस्ति प्रायश्चित्तम् ॥ ४५ ॥ अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः॥ ४६॥ अकामत इति ॥ अनिच्छातः कृतं पापं वेदाभ्यासेन शुध्यति नश्यति । वेदा- भ्यासेनेति कामकृतविषयप्रायश्चित्तापेक्षया लघुप्रायश्चित्तोपलक्षणार्थम् । प्रायश्चि- त्तान्तराणामपि विधानादागद्वेषादिव्यामूढतया पुनरनिच्छातः कृतं नानाप्रकारः प्रायश्चित्तैर्विद्याधनतपोभिः शुध्यतीति गुरुप्रायश्चित्तपरम् । अतः पूर्वोक्तस्यैवार्य व्याकारः। यद्यप्यधिकारनिरूपणं प्रकृतप्रायश्चित्तं त्वनन्तरं वक्ष्यति तथाप्यज्ञानाल्ल घुप्रायश्चित्ताधिकारी ज्ञानाद्गुरुप्रायश्चित्तेऽधिक्रियत इत्यधिकारिनिरूपणमेवेदम्४६ प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । न संसर्ग व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः॥४७॥ [प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥] प्रायश्चित्तीयतामिति ॥ दैवात्प्रमादादन्यशरीरकृतेन पूर्वजन्मार्जितदुष्कृतेन क्षयरोगादिभिः सूचितेन प्रायश्चित्तीयतां प्राप्याकृते प्रायश्चित्ते साधुभिः सह याजनादिना संसर्ग न गच्छेत् ॥ ४७ ॥ इहदुश्चरितैः केचित्केचित्पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥४८॥ इहेति ॥ इह जन्मनि निषिद्धाचरणैः केचित्पूर्वजन्मकृतैर्दुष्टस्वभावा मनुष्याः कौनख्यादिकं रूपविपर्ययं प्राप्नुवन्ति ॥ ४८ ॥ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चयं गुरुतल्पगः॥४९॥ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरेक्यं तु मिश्रकः ॥ ५० ॥ अन्नहर्तामयावित्वं मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥५१॥