पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४२१ an चिकीर्षुः, अध्वगः पान्थः, सर्ववेदसः कृतसर्वस्वदक्षिणविश्वजिद्यागः, विद्यागुरो- साच्छादनाद्यर्थः प्रयोजनं यस्य स गुर्वर्थः, एवं पितृमानर्थावपि, स्वाध्यायार्थी म्वाध्यायाध्ययनकालीनाच्छादनाद्यर्थी ब्रह्मचारी, उपतापी रोगी, एतान्नव ब्राह्म- णान्धर्मभिक्षाशीलान्स्नातकाञ्जानीयात् । एतेभ्यो निर्धनेभ्यो गोहिरण्यादि दीयत इनि दानं विद्याविशेपानुरूपेण दद्यात् ॥ १ ॥२॥ एतेभ्यो हि द्विजायेभ्यो देयमन्नं सदक्षिणम् । इतरेभ्यो बहिर्वेदि कृतानं देयमुच्यते ॥३॥ एतेभ्य इति ॥ एतेभ्यो नव ब्राह्मणश्रेष्ठेभ्योऽन्तर्वेदि सदक्षिणमन्नं दातव्यम् । गतब्यतिरिक्तेभ्यः पुनः सिद्धान्न बहिर्वेदि देयत्वेनोपदिश्यते । धनदाने त्वनियमः३ सर्वरत्नानि राजा तु यथार्ह प्रतिपादयेत् । ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ४ ॥ सर्वेति ॥ राजा पुनः सर्वरत्नानि मणिमुक्तादीनि चागोपयोग्यानि च दक्षिणार्थ धनं विद्यानुरूपेण वेदविदो ब्राह्मणान्स्वीकारयेत् ॥ ४ ॥ कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः॥५॥ कृतेति ॥ यः सभार्यः संतत्यर्थादिनिमित्तमन्तरेणापरान्दारान् भिक्षित्वा करोनि तस्य रतिमानं फलं, धनदातुः पुनस्तदुत्पन्नान्यपत्यानि भवन्तीति निन्दातिशयः । नैवंविधन धनं याचित्वान्यो विवाहः कर्तव्यो नाप्येवंविधाय नियमतो धनं देयमिति ॥ ५॥ धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विविक्तेषु प्रेत्य स्वर्ग समश्नुते ॥६॥ धनानीति ॥ धनानि गोभूहिरण्यादीनि शत्त्यनतिक्रमेण ब्राह्मणेषु वेदज्ञेषु विविनेषु पुत्रकलत्राद्यवसक्तेषु प्रतिपादयेत्तद्वशाच्च स्वर्गप्राप्तिर्भवतीति ॥ ६ ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ ७ ॥ यस्येति ॥ यस्यावश्यपोष्यभरणार्थ वर्षयपर्याप्तं तदधिकं वा भक्तादि स्यात्स काम्यसोमयागं कर्तुमर्हति । नित्यस्य पुनर्यथाकथंचिदवश्यकर्तव्यत्वान्नायं निषेधः। अतएव 'समान्ते सौमिकर्मखैः' इति नित्यविपयत्वमुक्तवान् ॥ ७ ॥ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः। स पीतसोमपूर्वोऽपि न तस्यानोति तत्फलम् ॥ ८॥ अत इति ॥ त्रैवार्पिकधनादल्पधने सति यः सोमयागं करोति तस्य प्रथमसो- मयागो नित्योऽपि न संपन्नो भवति । सुतरां द्वितीययागः काम्यः ॥ ८ ॥ मनु० ३६