पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४२२ मनुस्मृतिः। [ अध्यायः ११ शक्तः परजने दाता खजने दुःखजीविनि । मध्वापातो विषावादः सधर्मप्रतिरूपकः ॥९॥ शक्त इति ॥ यो बहुधनत्वाहानशक्तः सन्नवश्यभरणीये पितृमात्रादिज्ञातिजने दौर्गत्याहुःखोपेते सति यशोऽर्थमन्येभ्यो ददाति स तस्य दानविशेषो धर्मप्रति- रूपको नतु धर्म एव । मध्वापातो मधुरोपक्रमः, प्रथमं यशस्करत्वात् । विषास्त्रा- दश्चान्ते, नरकफलत्वात्तस्मादेतन्न कार्यम् ॥ ९ ॥ भृत्यानामुपरोधेन यत्करोत्यौ देहिकम् । तद्भवत्यसुखोदकं जीवतश्च मृतस्य च ॥१०॥ वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥] भृत्यानामिति ॥ पुत्रदाराद्यवश्यभर्तव्यपीडनेन यत्पारलौकिकधर्मबुद्ध्या दानादि करोति तस्य दातुर्जीवतो मृतस्य च तद्दानं दुःखफलं भवतीति पूर्वं कीर्त्यादिदृष्टार्थ- दानप्रतिषेधः । अयं त्वदृष्टार्थदानप्रतिषेधः ॥ १० ॥ यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥११॥ यो वैश्यः स्याद्वहुपशु-नक्रतुरसोमपः । कुटुम्बात्तस्य तद्रव्यमाहरेद्यज्ञसिद्धये ॥ १२ ॥ यज्ञश्चेदिति ॥ यो वैश्य इति ॥ क्षत्रियादेर्यजमानस्य विशेषतो ब्राह्मणस्य यदि यज्ञ इतराङ्गसंपत्ती सत्यामेकेनाङ्गेनासंपूर्णः स्यात्तदा यो वैश्यो बहुपश्वादिधनः पाकयज्ञादिरहितोऽसोमयाजी तस्य गृहात्तदङ्गोचिंतं द्रव्यं बलेन चौर्येण वाह- रेत् । एतच्च धर्मप्रधाने सति राजनि कार्यम् । स हि शास्त्रार्थमनुतिष्ठन्तं न निगृ- हाति ॥ ११ ॥ १२ ॥ आहरेत्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥ १३ ॥ आहरेदिति ॥ यज्ञस्य द्विव्यङ्गवैकल्ये सति तानि त्रीणि चाङ्गानि वे वाङ्गे वैश्थादलाभे सति निर्विशङ्कं शूद्रस्य गृहाबलेन चौर्येण वाहरेत् । यस्माच्छूद्रस्य क्वचिदपि यज्ञसंबन्धो नास्ति । 'न यज्ञार्थ धनं शूद्राद्विमो भिक्षेत'इति वक्ष्यमाण- प्रतिषेधः शूद्राद्याचनस्य नतु बलग्रहणादेः ॥ १३ ॥ योऽनाहितानिः शतगुरयज्वा च सहस्रगुः। तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ १४ ॥ य इति ॥ योऽनाहिताग्निर्गोशतपरिमाणधन आहिताग्निर्वाऽसोमयाजी गोसह- स्त्रपरिमितधनः द्वयोरपि गृहाभ्यां प्रकृतसङ्गद्वयं त्रयं वा शीघ्रं संपादयितुं ब्राह्मणेन .