पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० मनुस्मृतिः। [ अध्यायः ११ यथेति ॥ परगुणानिन्दकः शूद्रो यथायथा द्विजात्याचारमनिषिद्धमनुतिष्ठति तथा तथा जनैरनिन्दित इह लोके उत्कृष्टः स्मृतः स्वर्गादिलोकं च प्राप्नोति॥१२८॥ शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ १२९ ॥ शक्तेनापीति ॥ धनार्जनसमर्थेनापि शूद्रेण पोष्यवर्गसंवर्धनपञ्चयज्ञाधुचिता• दधिकबहुधनसंचयो न कर्तव्यः । यस्माच्छूद्रो धनं प्राप्य शास्त्रानभिज्ञत्वेन धन- मदाच्छुश्रूषायाश्वाकरणाब्राह्मणानेव पीडयतीत्युक्तस्यानुवादः ॥ १२९ ॥ एते चतुर्णा वर्णानामापद्धर्माः प्रकीर्तिताः । । यान्सम्यगनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ १३० ॥ एत इति ॥ अमी चतुर्णा वर्णानामापद्यनुष्ठेया धर्मा उक्ताः । यान्सम्यगाचर- न्तो विहितानुष्ठानानिषिद्धानाचरणाच्च निष्पापतया ब्रह्मज्ञानलाभेन परमां गति मोक्षलक्षणां लभन्ते ॥ १३० ॥ एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस कीर्तितः। अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १३१ ।। इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां दशमोऽध्यायः ॥ १० ॥ एष इति ॥ अयं चतुर्णा वर्णानामाचारः समग्रः कथितः । अत ऊर्ध्वं प्राय- श्चित्तानुष्ठानं शुभमभिधास्यामि ॥ १३१ ॥ इति श्रीकुल्लूकभट्टविरचिताया मन्वर्थमुक्तावल्या मनुवृत्तौ दशमोऽध्यायः ॥ १० ॥ अथ एकादशोऽध्यायः । सांतानिकं यक्ष्यमाणमध्वगं सर्ववेदसम् । गुर्वर्थ पितृमात्रथै स्वाध्यायायुंपतापिनः॥१॥ नवैतान्स्नातकान्विद्याद्राह्मणान्धर्मभिक्षुकान् । निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः॥२॥ सांतानिकमिति ॥ नवैतानिति ॥ ननु 'अतःपरं प्रवक्ष्यामि प्रायश्चित्तविधि शुभम्' इति प्रायश्चित्तस्य वक्तव्यतया प्रतिज्ञातत्वात्सांतानिकादिभ्यो देयमित्यादेः का प्रस्ताव उच्यते । 'दानेनाकार्यकारिणः' इति प्रागुक्तत्वात् 'दानेन वधनि- णेकं सादीनामशक्नुवन्' इत्यादेश्च वक्ष्यमाणत्वात्प्रकृष्टप्रायश्चित्तात्मकदानपात्रोप- न्यासः प्रकृतोपयुक्त एव । वर्णाश्रमधर्मादिव्यतिरिक्तप्रायश्चित्तादिनैमित्तिकधर्मक- थनार्थत्वाच्चाध्यायस्यान्यस्यापि नैमित्तिकधर्मस्यानोपन्यासो युक्तः । संतानप्रयोज- नत्वाद्विवाहस्य सांतानिको विवाहार्थी, यक्ष्यमाणोऽवश्यकर्तव्यज्योतिष्टोमादियागं .