पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। स्वार्थमिति ॥ स्वर्गप्राप्त्यर्थं स्ववृत्तिलिप्सार्थ वा ब्राह्मणानेव शूद्रः परिचरेत्। तस्माजातो ब्राह्मणाश्रितोऽयमिति शब्दो यस्य । शाकपार्थिवादित्वात्समासः। सास्य शूद्रस्य कृतकृत्यता तब्यपदेशतयासौ कृतकृत्यो भवति ॥ १२२ ॥ विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । यदतोऽन्यद्धि कुरुते तद्भवत्यस निष्फलम् ॥ १२३ ॥ यत एवमतः । विप्रेति ॥ ब्राह्मणपरिचर्यैव शूद्रस्य कर्मान्तरेभ्यः प्रकृष्टं कर्म शास्त्रेऽभिधीयते । यस्मादेतब्यतिरिक्तं यदसौ कर्म कुरुते तदस्य निष्फलं भवतीति पूर्वस्तुत्यर्थ न त्वन्यनिवृत्तये । पाकयज्ञादीनामपि तस्य विहितत्वात् ॥ १२३ ॥ प्रकल्प्या तस्स तैर्वृत्तिः स्वकुटुम्बाद्यथाहतः। शक्ति चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥१२४॥ प्रकल्प्येति ॥ तस्य परिचारकशूद्रस्य परिचर्यासामर्थ्य 'कर्मोत्साहं' पुत्रदारादि- भर्तव्यपरिमाणं चावेक्ष्य तैाह्मणैः स्वगृहादनुरूपा जीविका कल्पनीया ॥ १२४॥ उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ १२५ ॥ उच्छिष्टमिति ॥ तस्मै प्रकृताश्रितशूद्राय भुक्तावशिष्टान्नं ब्राह्मणैर्देयम् । एवं च 'न शूद्राय मतिं दद्यान्नोच्छिष्टम्' इत्यनाश्रितशूद्रविषयमवतिष्ठते । तथा जीर्णव- स्वासारधान्यजीर्णशय्यापरिच्छदा अस्मै देयाः ॥ १२५ ॥ न शूद्रे पातकं किंचिन्न च संस्कारमर्हति । नास्साधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥ १२६ ॥ न शूद्र इति ॥ लशुनादिभक्षणेन शूद्धे न किंचित्पातकं भवति । नतु ब्रह्म- वधादावपि । 'अहिंसा सत्यं' इत्यादेश्चातुर्वर्ण्यसाधारणत्वेन विहितत्वात् । नचा- प्युपनयनादिसंस्कारमर्हति, नास्याग्निहोत्रादिधर्मेऽधिकारोऽस्ति, अविहितत्वात् । नच शूद्रविहितत्वात्पाकयज्ञादिधर्मादस्य निषेधः । एवं चास्य सर्वस्य सिद्धार्थ- स्वादयं श्लोक उत्तरार्थोऽनुवादः ॥ १२६ ॥ धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः । मत्रवयं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १२७ ॥ धर्मेप्सव इति ॥ ये पुनः शूद्वाः स्वधर्मवेदिनो धर्मप्राप्तिकामास्वर्णिकानामा- चारमनिषिद्धमाश्रितास्ते 'नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्' इति याज्ञव- ल्क्यवचनान्नमस्कारमन्त्रेण मन्नान्तररहितं पञ्चयज्ञादि धर्मान्कुर्वाणा न प्रत्यव- यन्ति, ख्याति च लोके लभन्ते ॥ १२७ ॥ यथायथा हि सद्वृत्तमातिष्ठत्यनसूयकः। तथातथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥ १२८ ॥