पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [ अध्यायः १० कृता, धृतिः संतोषस्तस्सिन्सत्यल्पकेनापि जीव्यते, भैक्ष्य भिक्षासमूहः, कुसीदं वृद्ध्या धनप्रयोगः स्वयं कृतोऽपीत्येभिर्दशभिरापदि जीवनीयम् ॥ ११६ ॥ ब्राह्मणः क्षत्रियो वापि वृद्धि नैव प्रयोजयेत् । कामं तु खलु धर्मार्थ दद्यात्पापीयसेल्पिकाम् ॥ ११७॥ ब्रह्मण इति ॥ ब्राह्मणः क्षत्रियो वापि वृद्ध्यादिधनमापद्यपि न प्रयुञ्जीत किंतु निकृष्टकर्मणा धर्मार्थमल्पिकया वृद्ध्या प्रयुञ्जीत ॥ ११७ ॥ इदानीं राज्ञामापद्धर्ममाह- चतुर्थमाददानोऽपि क्षत्रियो भागमापदि । प्रजा रक्षन्परं शक्त्या किल्विपात्प्रतिमुच्यते ॥ ११८॥ चतुर्थमिति ॥ राज्ञो धान्यादीनामष्टम इत्याद्युक्तं स आपदि धान्यादेश्चतुर्थमपि भागं करार्थ गृह्णन्परया शक्त्या प्रजा रक्षन्नधिककरग्रहणपापेन न संबध्यते॥११८ कस्मात्पुनरापद्यपि राज्ञोऽपि रक्षणमुच्यते यस्मात्- स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः । शस्त्रेण वैश्यान्रक्षित्वा धर्नामाहारयेदलिम् ॥ ११९ ॥ स्वधर्म इति ॥ राज्ञः शत्रुविजयः स्वधर्मो विजयफलं युद्धमित्यर्थः। प्रजारक्षण- प्रयुक्तस्य यदि कुतश्चिद्भयं स्यात्तदा स युद्धपराङ्मुखो भवेत् । एवं च शस्त्रेण वैश्या- न्दस्युभ्यो रक्षित्वा तेभ्यो धर्मादनपेतमाप्तपुरुपैलिमाहारयेत् ॥ ११९ ॥ कोऽसौ बलिस्तमाह- धान्येऽष्टमं विशां शुल् विशं कार्षापणावरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ १२०॥ धान्य इति ॥ धान्ये विंश उपचये वैश्यानामष्टमं भागं शुल्कमाहारयेत् । धान्या- नां द्वादशोऽपि भाग उक्तः । आपद्ययमष्टम उच्यते । अत्यन्तापदि प्रागुक्तश्चतुर्थों वेदितव्यस्तत्रापि विंशं ग्राह्यम् । तथा हिरण्यादीनां कार्षापणान्तानां विंशतितमं भागं शुल्कं गृह्णीयात्तत्रापि 'पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः' इत्यनापदि पञ्चाशद्भाग उक्तः । आपद्ययं विंश उच्यते । तथा शुद्धाः, कारवः, सूपकारादयः, शिल्पिनः, तक्षादयः, कर्मणैवोपकुर्वन्ति नतु तेभ्य आपद्यपि करो ग्राह्यः ॥१२०॥ शूद्रस्तु वृत्तिमाकान्क्षत्रमाराधयेद्यदि । धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १२१ ॥ शूदस्त्विति ॥ शूद्रो ब्राह्मणशुश्रूपयाऽजीवन्यदि वृत्तिमाकाङ्क्षतदा क्षत्रियं प- रिचर्य तदभावे धनिनं वैश्यं परिचर्य जीवितुमिच्छेत् । द्विजातिशुश्रूषणासामर्थ्य तु प्रागुक्तानि कर्माणि कुर्यात् ॥ १२१ ॥ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः । जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ १२२ ॥