पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४१२ मनुस्मृतिः। [ अध्यायः१० च वृत्त्यर्थम् । वाणिज्यपशुरक्षणकृषिकर्माणि वैश्यस्य जीवनार्थानि । धर्मार्थाः पुनरनयोर्दानाध्ययनयागा भवन्ति ॥ ७९ ॥ वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वात कमैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ ८॥ वेदाभ्यास इति ॥ वेदाभ्यासो वेदाध्यापनं रक्षावार्ताभ्यां वृत्त्यर्थाभ्यां सहोप- देशात्तद्ब्राह्मणस्य, प्रजारक्षणं क्षत्रियस्य, वाणिज्यं पाशुपाल्यं वैश्यस्य, एतान्येतेषां वृत्त्यर्थकर्मसु श्रेष्ठानि ॥ ८ ॥ अधुना आपद्धर्ममाह- अजीवंस्तु यथोक्तेन ब्राह्मणः खेन कर्मणा । जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥ ८१॥ अजीवन्निति ॥ यथोक्तेनाध्यापनादिस्वकर्मणा ब्राह्मणो नित्यकर्मानुष्टानकुटुम्ब. संवर्धनपूर्वकमजीवन्, क्षत्रियकर्मणा ग्रामनगररक्षणादिना जीवेत् । यस्मात्क्षत्रि- यधर्मोऽस्य संनिकृष्टा वृत्तिः ॥ ८१ ॥ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥ ८२ ॥ उभाभ्यामिति ॥ ब्राह्मण उभाभ्यां स्ववृत्तिक्षत्रियवृत्तिभ्यामजीवन्केन प्रकारेण वर्तेतेति यदि संशयः स्यात्तदा कृषिपशुरक्षणे आश्रित्य वैश्यस्य वृत्तिमनुतिष्ठेत् । कृषिगोरक्षग्रहणं वाणिज्यदर्शनार्थम् । तथाच विक्रेयाणि वक्ष्यति । स्वयंकृतं चेदं कृष्यादि ब्राह्मणापवृत्तिः। अस्वयंकृतस्य 'ऋतामृताभ्यां जीवेत' इत्यनापद्येव विहितत्वात् ॥ ८२॥ संप्रति कृष्यादेर्बलाबलमाह- वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा। हिंसाप्रायां पराधीनां कृषि यत्नेन वर्जयेत् ॥ ८३ ।। वैश्यति ॥ ब्राह्मणः क्षत्रियोऽपि वा वैश्यवृत्त्यापि जीवन्भूमिष्ठजन्तुहिंसाबहुलां बलीवादिपराधीनां कृषि यत्नतस्त्यजेत् । अतः पशुपालनाद्यभावे कृषिः कार्येति द्रष्टव्यम् । क्षत्रियोऽपि वा इत्युपादानात्क्षत्रियस्याप्यात्मीयवृत्त्यभावे वैश्यवृत्तिर- स्तीत्यभिगम्यते ॥ ८ ॥ कृषि साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता । भूमि भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ ८४ ॥ कृषिमिति ॥ साध्विदं जीवनमिति कृषि केचिन्मन्यन्ते, सा पुनर्जीविका साधु- भिनिन्दिता, यस्मादलकुद्दालादिलोहप्रान्तं काष्ठं भूमि भूमिष्ठजन्तूंश्च हन्ति॥८॥ इदं तु वृत्तिवैकल्यात्यजतो धर्मनैपुणम् । विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ ८५ ॥