पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४०६ मनुस्मृतिः। [अध्यायः १० तपोबीजप्रभावस्तु ते गच्छन्ति युगे युगे। उत्कर्ष चापकर्ष च मनुष्येष्विह जन्मतः॥४२॥ तप इति ॥ सजातिजानन्तरजाः, तपःप्रभावेण विश्वामित्रवत्, बीजप्रभावेण ऋष्यशृङ्गादिवत्, कृतत्रेतादौ मनुष्यमध्ये जात्युत्कर्ष गच्छन्ति । अपकर्ष च व- क्ष्यमाणहेतुना यान्ति ॥ ४२ ॥ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥४३॥ शनकैरिति ॥इमा वक्ष्यमाणाः क्षत्रियजातय उपनयनादिक्रियालोपेन ब्राह्मणानां च याजनाध्यापनप्रायश्चित्ताद्यर्थदर्शनाभावेन शनैः शनैलॊके शूदतां प्राप्ताः ॥४३॥ पौण्ड्रकाश्चौद्रविडाः काम्बोजा यवनाः शकाः । पारदापहवाश्चीनाः किराता दरदाः खशाः ॥ ४४ ॥ पाण्ड्रेति ॥ पौण्डादिदेशोद्भवाः सन्तः क्रियालोपादिना शूद्वत्वमापन्नाः ॥४४॥ मुखवाहूरुपज्जानां या लोके जातयो वहिः। म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्सवः स्मृताः ॥ ४५ ॥ मुखेति ॥ ब्राह्मणक्षत्रियवैश्यशूद्राणां क्रियालोपादिना या जातयो बाह्या जाता म्लेच्छभाषायुक्ता आर्यभाषोपेता वा ते दस्यवः सर्वे स्मृताः ॥ ४५ ॥ ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥४६॥ य इति ॥ ये द्विजानामानुलोम्येनोत्पन्नाः 'षडेतेऽपसदाः स्मृताः' इति । ते. पामपि पितृतो जघन्यत्वेनापसदशब्देन प्रागभिधानादपध्वंसजास्ते द्विजात्युपका- रकैरेव निन्दितर्वक्ष्यमाणैः कर्मभिर्जीवेयुः ॥ ४६॥ सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् । वैदेहकानां स्वीकार्य मागधानां वणिक्पथः॥४७॥ सूतानामिति ॥ सूतानामश्वदमनयोजनादि रथसारथ्यं जीवनार्थम् । अम्बष्टानां रोगशान्त्यादिचिकित्सा, वैदेहकानामन्तःपुरं, मागधानां स्थलपथवणिज्या ॥४७॥ मत्स्यपातो निषादानां त्वष्टिस्त्वायोगवस्य च । मेदान्ध्रचुञ्चमद्नामारण्यपशुहिंसनम् ॥ ४८ ॥ मत्स्यघात इति ॥ निषादानामुक्तानां मत्स्यवधः, आयोगवस्य काष्टतक्षणं, मैदा- न्ध्रचुचमद्भूनामारण्यपशुमारणम् । चुचुर्मद्गुश्च वैदेहकबन्दिस्त्रियोर्ब्राह्मणेन जातो बौधायनेनोक्तौ बोद्धव्यौ । बन्दिस्त्री च क्षत्रियेण शूद्रायां जाता सोग्रैव ग्राह्या॥४८॥ .