पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०७ अध्यायः १० ] मन्वर्थमुक्तावलीसंवलिता। क्षत्रुग्रपुकसानां तु बिलौकोवधवन्धनम् । धिग्वणानां चर्मकार्य वेणानां भाण्डवादनम् ॥ ४९ ॥ शत्रुनेति ॥क्षत्रादीनां बिलनिवासिगोधादिवधबन्धनं, धिग्वणानां चर्मकरणं 'धर्मकार्य तद्विक्रयश्च जीवनं धिग्वणानाम्' इत्यौशनसदर्शनात् । अतएव कारावरेभ्य एषां वृत्तिच्छेदः । वेणानां कांस्यमुरजादिवाद्यभाण्डवादनम् ॥ ४९ ॥ चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । वसेयुरेते विज्ञाना वर्तयन्तः स्वकर्मभिः ॥ ५० ॥ चैत्येति ॥ ग्रामादिसमीपे ख्यातवृक्षश्चैत्यद्रुमः तन्मूले श्मशानपर्वतवनसमीपेषु चामी प्रकाशकाः स्वकर्मभिर्जीवन्तो वसेयुः ॥ ५० ॥ चण्डालश्वपचानां तु बहिामात्प्रतिश्रयः। अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥५१॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् । कार्णायसमलंकारः परिव्रज्या च नित्यशः ॥ ५२ ॥ चण्डालेति ॥ वासांसीति ॥ प्रतिश्रयो निदासः चण्डालश्वपाकानां तु प्रामाद- हिर्निवासः स्यात् । पानरहिताः कर्तव्या यत्र लोहादिपात्रे तैर्भुक्तं तत्संस्कृत्यापि न व्यवहर्तव्यं, धनं चैषां कुक्कुरखरं न वृषभादि, वासांसि च शववस्त्राणि, भिन्नशरा- वादिषु च भोजनं, लौहवलयादि चालंकरणं, सर्वदा च भ्रमणशीलत्वम्॥५१॥५२॥ न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ ५३॥ न तैरिति॥धर्मानुष्ठानसमये चण्डालश्वपाकैः सह दर्शनादिव्यवहारं न कुर्यात् । तेषां च ऋणदानग्रहणादिव्यवहारो विवाहश्च समानजातीयैःसहान्योन्यं स्यात्॥५३॥ अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ ५४ ॥ अन्नमेषामिति ॥ अन्नमेषां परायत्तं कार्य, साक्षादेभ्यो न देयं किंतु प्रेष्यभिन्न- पात्रे दातव्यम् । ते च रात्रौ ग्रामनगरयोर्न पर्यटेयुः ॥ ५४ ॥ दिवा चरेयुः कार्यार्थ चिह्निता राजशासनैः । अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः॥ ५५ ॥ दिवेति ॥ दिवा ग्रामादौ ऋयविक्रयादिकार्याथै राजाज्ञया चिह्नाङ्किताः सन्तः पर्यटेयुः । अनाथं च शवं ग्रामान्निहरेयुरिति शास्त्रमर्यादा ॥ ५५ ॥ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याचाभरणानि च ॥५६॥