पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। कारावर इति ॥ 'वैदेह्यामेव जायते' इत्युत्तरत्र श्रवणात्, अत्राप्याशङ्कायां सैव संबध्यते । निषादाद्वैदेह्यां जातः कारावराख्यश्चर्मच्छेदनकारी जायते । अतएव औशनसे कारावराणां चर्मच्छेदनाचरणमेव वृत्तित्वेनोक्तम् । वैदेहकसैरिन्ध्रमे- दाख्यौ ग्रामबहिर्वासिनौ । अन्तरानिर्देशाद्वैदेहकेन च वैदेह्यां जातस्य गर्हितवैदे- हकस्याप्युचितत्वात्, कारावरनिषादजात्योश्चात्र श्लोके संनिधानात्, कारावरनि पादस्त्रियोरेव क्रमेण जायते ॥ ३६ ॥ चण्डालापाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ ३७॥ चण्डालादिति ॥ वैदेह्यां चण्डालापाण्डुसोपाकाख्यो वेणुव्यवहारजीवी जायते निषादेन च वैदेह्यामेवाहिण्डिकाख्यो जायते । अस्य च बन्धनस्थानेषु बाह्यसंर- क्षणादाहिण्डिकानामित्यौशनसे वृत्तिरुक्ता । समानमातापितृकत्वेऽपि कारावरा- हिण्डिकयोवृत्तिभेदसंश्रवणायपदेशभेदः ॥ ३७ ॥ चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुक्कस्यां जायते पापः सदा सज्जनगर्हितः॥३८॥ चण्डालेनेति ॥ शूद्रायां निषादेन जातायां पुक्कस्यां चण्डालेन जातः सोपा- काख्यः पापारमा, सर्वदा साधुभिर्निन्दितो, मारणोचितापराधस्य मूलं वध्यस्तस्य व्यसनं राजादेशेन मारणं तेन वृत्तिर्यस्य स जायते ॥ ३८ ॥ निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम् । श्मशानगोचरं मूते बाह्यानामपि गर्हितम् ॥ ३९ ॥ निषादस्त्रीति ॥ निषादी चण्डालादन्त्यावसायिसंज्ञं चण्डालादिभ्योऽपि दुष्टतमं श्मशानवासिनं तद्वृत्तिं च जनयति ॥ ३९ ॥ संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥४०॥ संकर इति ॥ वर्णसंकरविषये एता जातयो, यस्येयं जनयित्री अयं जनकः स एवंजातीय इत्येवं पितृमातृकथनपूर्वकं दर्शिताः। तथा गूढाः प्रकटा वा तज्जात्यु- दितकर्मानुष्ठानेन ज्ञातव्याः ॥ ४० ॥ सजातिजानन्तरजाः षद् सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः॥४१॥ सजातीति ॥ द्विजातिसमानजातीयासु जाताः, तथानुलोम्येनोत्पन्नाः ब्राह्मणेन क्षत्रियावैश्ययोः क्षत्रियेण वैश्यायामेवं षद पुत्रा द्विजधर्मिण उपनेयाः । 'तान- नन्तरजास्तु'इति यदुक्तं तत्तजातिव्यपदेशाथै न संस्कारार्थमिति कस्यचिनमः स्या- दत एषां द्विजातिसंस्कारार्थमिदं वचनम् । ये पुनरन्ये द्विजात्युत्पन्ना अपि सू- तादयः प्रतिलोमजास्ते शूद्रधर्माणो नैषामुपनयनमस्ति ॥ ४ ॥