पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः १० चायोगच्यामात्मनो निकृष्टान्पञ्च पुत्राञ्जनयति । एवं क्षत्तृचाण्डालावपि प्रत्येक पञ्च पुत्राअनयतः । इत्थं बाह्यास्त्रयः पञ्चदश पुत्राञ्जनयन्ति । तथानुलोमजेभ्यो हीना वैश्यक्षत्रियप्रभवा मागधवैदेहसूता आत्मापेक्षया हीनान्पूर्ववच्चातुर्वर्ण्य- स्त्रीषु सजातौ प्रत्येकं पञ्च पुत्राञ्जनयन्तो हीना अपि त्रयः पञ्चदशैव पुत्राञ्जन- यन्ति । एवं त्रिंशदेते भवन्ति । अथवा बाह्यशब्दो हीनशब्दश्च षडेव प्रतिलोम- जानाह । अत्र बाह्यश्चण्डालक्षत्रायोगववैदेहमागधसूताः षड्यथोत्तरमुत्कर्षान्प्राति- लोम्येन स्त्रीषु वर्तमाना बाह्यतरान्पञ्चदशैव पुत्राञ्जनयन्ति । तद्यथा । चण्डालाः क्षत्रियादिषु पञ्चसु स्त्रीषु, क्षत्तायोगव्यादिषु चतसृषु, आयोगवो वैदेह्यादितिसृषु, वैदेहो मागधीसूत्योः, मागधः सूत्यां, सूतस्तु प्रतिलोमाभावात्प्रातिलोम्येन प- ञ्चदशैव पुत्राञ्जनयति । पुनरिति निर्देशाद्धीनाः सूतादयश्चण्डालान्ताः षड्यथो- त्तरमपकर्षादानुलोम्येनापि प्रतिलोमोक्तरीत्या स्वापेक्षया हीनान्पञ्चदशैव पुत्रा- अनयन्ति । एवं त्रिंशदेते भवन्ति ॥ ३१ ॥ प्रसाधनोपचारज्ञमदासं दासजीवनम् । सैरिन्धं वागुरावृत्ति सूते दस्युरयोगवे ॥ ३२ ॥ प्रसाधनेति ॥ केशरचनादिः प्रसाधनस्तस्योपचारशं अदासमुच्छिष्टभक्षणा- दिदासकर्मरहितमङ्गसंवाहनादिदासकर्मजीवनं पाशबन्धनेन मृगादिवधाख्य- वृत्त्यन्तरजीवनं सैरिन्ध्रनामानं 'मुखबाहूरुपज्जानाम्' इति श्लोके वक्ष्यमाणो दस्युरायोगवस्त्रीजातौ शूद्रेण वैश्यायामुत्पन्नायां जनयति, तच्चास्य मृगादिमारणं देवपित्रौषधार्थ वेदितव्यम् ॥ ३२ ॥ मैत्रेयकं तु वैदेहो माधुकं संग्रस्यते । नृन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ ३३ ॥ मैत्रेयकमिति ॥ वैश्याब्राह्मण्यां जातो वैदेहः प्रकृतायामायोगव्यां मैत्रेयाख्यं मधुरभाषिणं जनयति । यःप्रातर्घण्टामाहत्य राजप्रभृतीन्सततं वृत्त्यर्थं स्तौति॥३३॥ निषादो मार्गवं मूते दासं नौकर्मजीविनम् । कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ ३४ ॥ निषाद इति ॥ ब्राह्मणेन शूद्रायां जातो निषादः प्रागुक्तायामायोगव्यां मार्गवं दासापरनामानं नौव्यवहारजीविनं जनयति । आर्यावर्तदेशवासिनः कैवर्तशब्देन यं कीर्तयन्ति ॥ ३४ ॥ मृतवस्त्रभृत्सु नारीषु गर्हितानाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः॥३५॥ मृतेति ॥ सैरिन्ध्रमैत्रेयमार्गवा हीनजातीयास्त्रयः मृतवस्त्रपरिधानासु क्रुरासू- च्छिष्टादिभक्तानाशनायोगवीषु पितृभेदागिन्ना भवन्ति ॥ ३५ ॥ कारावरो निषादात्तु चर्मकारः प्रमूयते । वैदेहिकादन्ध्रमेदौ बहिमिप्रतिश्रयौ ॥ ३६ ॥