पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


1.गन ३८२ मनुस्मृतिः। [ अध्यायः ९ असंभोज्या ह्यसंयाज्या असंपाच्याविवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ २३८ ॥ असंभोज्या इति ॥ अन्नादिकं नैते भोजयितव्याः, न चैते याजनीयाः, नाप्येते ऽध्यापनीयाः, नाप्येतैः कन्यादानसंबन्धः कर्तव्यः । एते च निर्धनत्वाद्याचनादिदे- न्ययुक्ताः सर्वश्रौतादिकर्मवर्जिताः पृथिवीं पर्यटेयुः ॥ २३८ ॥ अ... ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः। एनेर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ २३९ ॥ वि॥ ज्ञातिभिः संवन्धिभिर्मातुलाधैरेते कृताङ्कास्त्यजनीयाः, नचैपां दया निते नमस्कार्याइतीयं मनोराज्ञा ॥ २३९ ॥ प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । नाङ्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥२४॥ प्रायश्चित्तमिति ॥ शास्त्रविहितं प्रायश्चित्तं पुनः कुर्वाणा ब्राह्मणादयस्त्रयो वणी राज्ञा ललाटेऽङ्कनीया न भवेयुः । उत्तमसाहसं पुनर्दण्डनीयाः ॥ २४० ॥ आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः। विवायो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥२४१॥ आगःस्विति ॥ इतरे कृतवन्तस्तु' इत्युत्तरश्लोके श्रूयमाणम् 'अकामतः' इति चात्रापि योजनीयम् । तेनाकामत इत्येतेप्वपराधेषु गुणवतो ब्राह्मणस्य मध्यम- साहसो दण्डः कार्यः। पूर्वोक्तस्तूत्तमसाहसो निर्गुणस्य द्रष्टव्यः । कामतस्तेष्वपरा- धेषु धनधान्यादिपरिच्छदसहितो ब्राह्मणो देशान्निस्यः ॥ २४१ ॥ इतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥२४२॥ इतर इति ॥ ब्राह्मणादन्ये पुनः क्षत्रियादय एतानि पापान्यनिच्छन्तः कृतवन्तः सर्वस्वहरणमर्हन्ति । इदं च सर्वस्वहरणं पूर्वोक्तेनोत्तमसाहसेन वृत्तापेक्षया व्यव- स्थापनीयम् । इच्छया पुनरेषामेतेप्वपराधेषु प्रवासनं वधोऽर्हति । 'प्रवासनं परा- सनं निषूदनं विहिंसनम्' इति वधपर्यायं प्रवासनशब्दं पठन्त्याभिधानिकाः ॥२४२॥ नाददीत नृपः साधुर्महापातकिनो धनम् । आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥ २४३॥ नाददीतेति ॥ धार्मिको राजा महापातकसंबन्धि धनं दण्डरूपं न गृह्णीयात् । लोभात्पुनस्तद्रुहन्महापातकदोपेण संयुज्यते ॥ २४३ ॥ का तर्हि दत्तधनस्य प्रतिपत्तिरित्येतदर्थमाह- अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ २४४ ॥