पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३८३ अस्विति ॥ तद्दण्डधनं नद्यादिजले प्रक्षिपेवरुणाय दद्याच्छ्रुतसंपन्नब्राह्मणाय वा दद्यात् ॥ २४४ ॥ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः। ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥२४५ ॥ ईश इति ॥ महापातकिदण्डधनस्य वरुणः स्वामी यस्माद्राज्ञामपि दण्डधारित्वा- प्रभुः । तथा ब्राह्मणः समस्तवेदाध्यायी सर्वस्य जगतः प्रभुः । अतः प्रभुत्वात्तौ दण्डधनमर्हतः ॥ २४५॥ यत्र वर्जयते राजा पापकृयो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ २४६ ॥ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥ २४७॥ यन्त्रेति ॥ निष्पद्यन्त इति ॥ यत्र देशे प्रकृतं महापातकिधनं राजा न गृह्णाति तत्र परिपूर्णेन कालेन मनुप्या उत्पद्यन्ते, दीर्घायुषश्च भवन्ति । वैश्यानां च यथैव धान्यादिसस्यान्युप्तानि तथैव पृथक् पृथक् जायन्ते । अकाले न बाला म्रियन्ते । दीर्घजीविन इत्युक्तेऽप्यादराथै बालानां पुनर्वचनम् । व्यङ्गं च न किंचिद्भूतमुन्प- व्रते ॥ २४६ ॥ २४७ ॥ ब्राह्मणान्वाधमानं तु कामादवरवर्णजम् । हन्याचित्रैवेधोपायैरुद्वेजनकरैर्नृपः॥ २४८॥ ब्राह्मणानिति ॥ शरीरपीडाधनग्रहणादिना शूद्रमिच्छातो ब्राह्मणान्बाधमानं छेदादिभिरुद्वेगकरैर्वधोपायैर्नृपो हन्यात् ॥ २४८ ॥ यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः॥ २४९ ॥ यावानिति ॥ अवध्यस्य वधे यावानधर्मो नृपतेः शास्त्रेण ज्ञातस्तावानेव वध्यस्य त्यागेऽपि यथाशास्त्रं दण्डं तु कुर्वतो धर्मः स्यात्तस्मात्तं कुर्यात् ॥ २४९ ॥ उदितोऽयं विस्तरशो मिथो विवदमानयोः। अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः॥ २५०॥ उदित इति ॥ अष्टादशसु ऋणादानादिषु व्यवहारपदेषु परस्परं विवदमानयोर- थिप्रत्यार्थिनोः कार्यनिर्णयोऽयं विस्तरेणोक्तः ॥ २५० ॥ एवं धाणि कार्याणि सम्यक्कुर्वन्महीपतिः । देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत् ॥ २५१ ॥ एवमिति ॥ अनेनोक्तप्रकारेण धर्मादनपेतं निर्णयं कुर्वन् राजा जनानुरागा- देशाल्लब्धुमिच्छेल्लब्धांश्च सम्यक्पालयेत् । एवं सम्यग्ज्यवहारदर्शनस्यालब्धप्रदे- शप्राप्त्यर्थत्वमुक्तम् ॥ २५१ ॥