पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३८१ कूटशासनकर्तुश्च प्रकृतीनां च दूपकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याविट्सेविनस्तथा ॥ २३२ ॥ कूटेति ॥ कूटराजाज्ञालेखकान् अमात्यानां च भेदकान्, स्त्रीबालब्राह्मणघातिनः शत्रुसेविनश्च राजा हन्यात् ॥ २३२ ॥ तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ २३३ । वात्तौ [तीरितं चानुशिष्टं च यो मन्येत विकर्मणा । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥ ३६॥ तीरितमिति ॥ यत्र क्वचिद्दणादानादिव्यवहारे यत्कार्य सतस्तीरितम् । 'पार तीर कर्मसमाप्तौ' इति चुरादौ पठ्यते । शास्त्रव्यवस्थानिर्णीतं । अनुशिष्टं दण्डपर्य- न्ततां च नीतं स्यात्तत्कृतमङ्गीकुर्यान्न पुनर्निवर्तयेत् । एतच्चाकारणात् । अतः कारण- कृतं निवर्तयेदेव ॥ २३३ ॥ अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा । तत्स्वयं नृपतिः कुर्यात्तान्सहस्रं च दण्डयेत् ॥ २३४ ॥ अमात्या इति ॥ राजामात्याः प्राडिवाको वा व्यवहारेक्षणे नियुक्तो यदसम्यग्व्य- वहारनिर्णयं कुर्युस्तत्स्वयं राजा कुर्यात्पणसहस्रं तान्दण्डयेत् । इदं चोत्कोचधनग्रह- णेतरविषयम् । उत्कोचग्रहणे 'ये नियुक्तास्तु' इत्युक्तत्वात् ॥ २३४ ॥ ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः। एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ २३५ ॥ ब्रह्महेति ॥ यो मनुष्यो ब्राह्मणं हतवान्स ब्रह्महा, सुरापो द्विजातिः पैष्टयाः पाता ब्राह्मणश्च पैष्टीमाध्वीगौडीनां, तस्करो ब्राह्मणसुवर्णहारी मनुष्यः, यश्च कश्चि- दुरुपत्नीगामीत्येते सर्वे प्रत्येकं महापातकिनो बोद्धव्याः ॥ २३५ ॥ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ २३६ ॥ चतुर्णामिति ॥ चतुर्णामप्येषां महापातकिनां प्रायश्चित्तमकुर्वतां शारीरं धनग्रह- णेन च धनसंबन्धमपराधानुसारेण धर्मादनपेतं वक्ष्यमाणं दण्डं कुर्यात् ॥ २३६॥ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः। स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ २३७॥ गुरुतल्प इति ॥ 'नाङ्या राज्ञा ललाटे स्युः' इति वक्ष्यमाणत्वाल्ललाटमेवाङ्क- नस्थानमवगम्यते। तत्र गुरुपत्नीगमने यावजीवस्थायि तप्तलोहेन गुरुपत्नीगमनचिह्न कार्यम् । एवं सुरापाने कृते पातुर्दीध सुराध्वजाकारं, सुवर्णाप- हारे सत्यपहर्तुः कुक्कुरपादरूपं कार्यम् । ब्रह्महणि कबन्धः पुमान्कर्तव्यः ॥ २३७ ॥