पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ मनुस्मृतिः। [अध्यायः९ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् ॥ १२७ ॥ [अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥] अपुत्र इति ॥ अविद्यमानपुत्रो यदस्यामपत्यं जायेत तन्मम श्राद्धाद्यौर्ध्वदेहिक- कर स्यादिति कन्यादानकाले जामात्रा सह संप्रतिपत्तिरूपेण विधानेन दुहितरं पुत्रिकां कुर्यात् ॥ १२७ ॥ अत्र परप्रतिपत्तिरूपमनुवादमाह- अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः। विवृद्ध्यर्थ स्ववंशस्य स्वयं दक्षः प्रजापतिः।। १२८ ॥ अनेनेति ॥ दक्षः प्रजापतिः पुत्रोत्पादनविधिज्ञः स्ववंशवृद्ध्यर्थमनेनोक्तविधा- नेन कृत्स्ना दुहितरः पूर्व पुत्रिकाः स्वयं कृतवान् । कार्येऽथशब्दः ॥ १२८ ॥ ददौ स दश धाय कश्यपाय त्रयोदश । सोमाय राज्ञे सटिकते-गीतात्मा सप्तविंशतिम् ॥ १२९ ॥ ददाविति ॥ स दक्षो भाविपुत्रिकापुत्रलाभेन प्रीतात्मालंकारादिना सस्कृत्य दश पुत्रिका धर्माय, त्रयोदश कश्यपाय, सप्तविंशतिं चन्द्राय द्विजानामोपधीनां च राज्ञे दत्तवान् । सत्कारवचनमन्येषामपि पुत्रिकाकरणे लिङ्गम् । दशेत्यादि व बह्वीनामपि पुत्रिकाकरणज्ञापकम् ॥ १२९ ॥ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा। तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ १३०॥ यथैवेति ॥ आत्मस्थानीयः पुत्रः ‘आत्मा वै पुत्रनामासि' इति मन्त्रलिङ्गात्तत्समा च दुहिता तस्या अप्यङ्गेभ्य उत्पादनात् । अतस्तस्यां पुत्रिकायां पितुरात्मस्वरूपायां विद्यमानायामपुत्रस्य मृतस्य पितुर्धनं पुत्रिकाव्यतिरिक्तः कथमन्यो हरेत् ॥१३०॥ मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः। दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥ १३१ ॥ मातुरिति ॥ मातुर्यद्धनं तत्तस्यां मृतायां कुमारीभाग एव स्यान्न पुत्राणां तत्र भागः । कुमारी चानूढाभिप्रेता । तथा गोतमः-'स्त्रीधनं दुहितॄणामदत्तानाम- प्रतिष्ठितानां च । अपुत्रस्य च मातामहस्य दौहित्र एव प्रकृतत्वात्पौत्रिकेयः समग्र धनं गृह्णीयात्' इति ॥ १३१ ॥ दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्यावौ पिण्डौ पित्रे मातामहाय च ॥ १३२ ॥ दौहित्र इति ॥ दौहित्रः प्रकृतत्वात्पौत्रिकेय एव, तस्य मातामहधनग्रहणमन- न्तरोक्तम् जनकधनग्रहणं च । पिण्डदानार्थोऽयमारम्भः, पितृशब्दस्य तत्रैव प्रसि-