पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३६३ । दुत्वात् । अन्यस्य पौत्रिकेयः पुत्रान्तररहितस्य जनकस्य समग्रं धनं गृह्णीयात्स एव पितृमातामहाभ्यां द्वौ पिण्डौ दद्यात् । पिण्डदानं श्राद्धोपलक्षणार्थम् । पौत्रि- केयत्वेन जनकधनग्रहणपिण्डदानव्यामोहनिरासार्थ वचनम् ॥ १३२ ॥ पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः। तयोहि मातापितरौ संभूतौ तस्य देहतः॥ १३३ ॥ पौत्रेति ॥ पौत्रपौत्रिकेययोर्लोके धर्मकृत्ये न कश्चिद्विशेषोऽस्ति । यस्मात्तयोर्मा- तापितरौ तस्य देहादुत्पन्नाविति पूर्वस्यैवानुवादः ॥ १३३ ॥ पुत्रिकायां कृतायां तु यदि पुत्रोऽनु जायते । समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रियाः॥१३४॥ पुत्रिकायामिति ॥ कृतायां पुत्रिकायां यदि तत्कर्तुः पुत्रोऽनन्तरं जायते तदा तयोविभागकाले समो विभागो भवेत् । नोद्धारः पुत्रिकायै देयः। यस्साज्येष्ठाया अपि तस्या उद्धारविषये ज्येष्टता नादरणीया ॥ १३४ ॥ अपुत्रायां मृतायां तु पुत्रिकायां कथंचन । धनं तत्पुत्रिकामा हरेतैवाविचारयन् ॥ १३५ ॥ अपुत्रायामिति ॥ अपुत्रायां पुत्रिकायां कथंचन मृतायां तदीयधनं तद्भतैवावि- चारयन्गृह्णीयात् । पुत्रिकायाः पुत्रसमत्वेनानपत्यस्य पनीरहितस्य मृतपुत्रस्य पितुर्धनग्रहणप्रसक्तौ तन्निवारणार्थमिदं वचनम् ॥ १३५ ॥ अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यापिंड हरेद्धनम् ॥ १३६ ॥ अकृतेति ॥ अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्यं, तत्र 'यदपत्यं भवे- दस्यां तन्मम स्यात्स्वधाकरम्' इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते सा कृताभिसंधिमात्रकृता वाग्व्यवहारेण न कृता । तथा गोतमः-'अभिसंधि- मात्रात्पुत्रिकामेकेषाम्' इति । अतएव 'पुत्रिकाधर्मशङ्कया' इति प्रागविवाह्यत्व- मुक्तम् । पुत्रिकेव कृताऽकृता वा पुत्रं समानजातीयाद्वोढुरुत्पादयेत्तेन दौहित्रेण पौत्रकार्यकारणात्पौत्रिकेयवान्मातामहः पौत्री । तथा चासौ तस्सै पिण्डं दद्यात् । गोविन्दराजस्तु 'अकृता वा' इत्यफुत्रिकैव दुहिता तत्पुत्रोऽपि मातामहधने पौत्रि- केय इव मातामह्यादिसत्त्वेऽप्यधिकारीत्याह । तन्न । पुत्रिकायाः पुत्रतुल्यत्वादपु- त्रिकातत्पुत्रयोरतुल्यत्वेन तत्पुत्रयोस्तुल्यत्वायोग्यत्वादिति ॥ १३६ ॥ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्यानोति विष्टपम् ।। १३७ ॥ पुत्रेणेति ॥ पुत्रेण जातेन स्वर्गादिलोकान्प्रामोतीति पौत्रेण तेष्वेव चिरकालम- वतिष्ठते । तदनन्तरं पुत्रस्य पौत्रेणादित्यलोकं प्राप्नोति । अस्य च दायभागप्रकरणे-