पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः९] मन्वर्थमुक्तावलीसंवलिता। पुत्र इति ॥ यदि प्रथमोढायां कनीयान्पुत्रो जातः पश्चादूढायां च ज्येष्टस्तदा त्रि कथं विभागो भवेदिति संशयो यदि स्यात्किं मातुरुद्वाहक्रमेण पुत्रस्य ज्येष्ट- वमुत स्वजन्मक्रमेणेति तदाह ॥ १२२ ॥ एकं वृषभमुद्धारं संहरेत स पूर्वजः। ततोऽपरे ज्येष्ठषास्तदूनानां स्वमातृतः ॥ १२३ ॥ एकमिति ॥ पूर्वस्यां जातः पूर्वजः । ‘डयापोः संज्ञाछन्दसोर्बहुलम्' इति हस्त्र- त्वम् । स कनिष्ठोऽप्येकं वृषभमुद्धारं गृह्णीयात्ततः श्रेष्ठवृषभादन्ये ये सन्त्यग्र्याः श्रेष्टवृषभास्ते तस्माज्यैष्ठिनेयान्मातृत जनानां कनिष्ठेयानां कप्रत्येमेकैकशो भव- न्तीति मात्रुद्वाहक्रमेण ज्यैष्ठ्यम् ॥ १२३ ॥ ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः। ततः स्वमातृतः शेषा भजेरनिति धारणा ॥ १२४ ॥ ज्येष्ठ इति ॥ प्रथमोढायां पुनर्यो जातो जन्मना च भ्रातृभ्यो ज्येष्ठः स वृषभः षोडशो यासां गवां ता गृह्णीयात् । पञ्चदश गा एकं वृषभमित्यर्थः। ततो- ऽनन्तरं येऽन्ये बह्वीभ्यो जातास्ते स्वमातृभा ज्येष्टापेक्षया शेषा भागादि विभजेरनिति निश्चयः ॥ १२४ ॥ सदृशस्त्रीषु जातानां पुत्राणामविशेषतः । न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैव्यमुच्यते ॥ १२५ ॥ सदृशेति ॥ समानजातीयस्त्रीषु जातानां पुत्राणां जातिगतविशेषाभावे सति न मातृक्रमेण ज्यैष्यमृषिभिरुच्यते । जन्मज्येष्ठानां तु पूर्वोक्त एवं विंशतिभागादिलं- द्वारो बोद्धव्यः । एवंच मातृज्यैष्ठ्यस्य विहितप्रतिषिद्धत्वात्पोडशीग्रहणाग्रहणवद्वि- कल्पः । स च गुणवन्निर्गुणतया भ्रातॄणां गुरुलघुत्वावगमाब्यवस्थितः । अतएव 'जन्मविद्यागुणज्येष्ठो त्र्यंशं दायादवाप्नुयात्' इति बृहस्पत्यादिभिर्जन्मज्येष्ठस्य विद्याद्युत्कर्षेणोद्धारोत्कर्ष उक्तः । 'निर्गुणस्यैकवृपभम्' इति, मन्दगुणस्य 'वृषभषो- डशाः' इति मातृज्यध्याश्रयणेनोद्धारो बोद्धव्यः । मातृज्यैध्यविधिं त्वनुवादं मेधा- तिथिरवदत् । गोविन्दराजस्त्वन्यतमं जगौ । न केवलं विभागे जन्मज्यैष्ठ्यं किंतु ॥ १२५॥ जन्मज्येष्ठेन चाहानं सुब्राह्मण्यावपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ १२६ ॥ जन्मेति ॥ सुब्राह्मण्याख्यो मत्रो ज्योतिष्टोम इतीन्द्रस्याहानार्थं प्रयुज्यते । तत्र प्रथमपुत्रेण पितरमुद्दिश्याह्वानं क्रियते । अमुकपिता यजत इत्येवमृषिभिः स्मृतम् । तथा यमयोर्गर्भ एककालं निषिक्तयोरपि गर्भेष्विति बहुवचनं स्मृता। ॥ १२६॥