पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३२६ मनुस्मृतिः। [ अध्यायः८ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ३३४ ॥ येनेति ॥ येन येनाङ्गेन हस्तपादादिना येन प्रकारेण संधिच्छेदादिना चौरो मनुष्येपु विरुद्धं धनापहारादिकं चेष्टते तस्य तदेवाङ्गं प्रसङ्गनिवारणाय राजा छेदयेत् । तत्र धनस्वाम्युत्कर्षापेक्षयायमङ्गच्छेदः ॥ ३३४ ॥ पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥३३५।। पितेति ॥ पित्राचार्यमित्रभ्रातृमातृपत्नीपुत्रपुरोहितानां मध्यात्स्वधर्मे यो नाव- तिष्ठते स राज्ञोऽदण्डनीयो नास्ति, अपितु दण्डनीय एव ॥ ३३५ ॥ कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा ॥ ३३६ ।। कार्षापणमिति ॥ यत्रापराधे राजव्यतिरिक्तो जनः कार्षापणं दण्डनीयो भवेत्त- स्मिन्बपराधे राजा पणसहस्रं दण्डनीय इति निश्चयः । स्वार्थदण्डं स्वप्सु प्रवेशये- ब्राह्मणेभ्यो वा दद्यात् । 'ईशो दण्डस्य वारुणः' इति वक्ष्यमाणत्वात् ॥ ३३६ ॥ अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥ ३३७ ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तदोषगुणविद्धि सः ॥ ३३८ ॥ अष्टापाद्यमिति ॥ ब्राह्मणस्येति ॥ तद्दोषगुणविद्धि स इति सर्वत्र संबध्यते । यस्मिंस्तेये यो दण्ड उक्तः स स्तेयगुणदोषज्ञस्य शूद्रस्याष्टभिरापाद्यते गुण्यत इत्यष्टगुणः कर्तव्यः । षोडशगुणो गुणदोषज्ञस्य वैश्यस्य, द्वात्रिंशद्गुणस्तथाविधक्ष- नियस्य, चतुःषष्टिगुणो गुणदोषविदुषो ब्राह्मणस्य शतगुणो वाष्टाविंशत्यधिक- शतगुणो वा गुणातिशयापेक्षया ब्राह्मणस्यैव ॥ ३३७ ॥ ३३८ ॥ वानस्पत्यं मूलफलं दावग्यर्थ तथैव च । तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ।। ३३९ ॥ वानस्पत्यमिति ॥ वीरुद्ध नस्पतीनां पुप्पाणि स्ववदाददीत 'फलानि चाप- रिवृतानां' इति गोतमवचनादपरिवृतवानस्पत्यादीनां मूलफलं, होमीयाझ्यर्थ च दारु, गोग्रासार्थ च तृणं परकीयमस्तेयं मनुराह । तस्मान्न दण्डो नाप्य- धर्मः ॥ ३३९ ॥ योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः॥ ३४० ॥