पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३२५ अन्येषां चैवमादीनांमद्यानामोदनस्य च । पक्कान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ॥ ३२९ ॥ सूत्रेत्यादि ॥ ऊर्णादिसूत्रकाासिकस्य च किण्वस्य सुराबीजद्रव्यस्य च, सूक्ष्म- वेणुखण्डनिर्मितजलाहरणभाण्डादीनां, यदप्यन्यत्पशुसंभवं च मृगचर्मखड्गशृङ्गादि, अन्येषामप्येवंविधानामसारप्रायाणां मनःशिलादीनां, मद्यानां द्वादशानां, पक्वान्नानामोदनव्यतिरिक्तानामप्यपूपमोदकादीनां च कार्पासादिशब्दार्थानां प्रसि- द्धानां चापहारे कृते मूल्याविगुणो दण्डः कार्यः ॥३२६॥३२७॥३२८॥३२९॥ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येप्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥ ३३० ॥ पुष्पेष्विति ॥ पुप्पेषु, हरिते क्षेत्रस्थे धान्ये, गुल्मलतावृक्षेष्वपरिवृतेषु अनपा- वृतवृक्षेषु, वक्ष्यमाणश्लोके धान्यादिषु निर्देशात्परिपवनसंभवाच्च धान्येषु, अन्येषु समर्थपुरुषभारहार्येषु हृतेषु देशकालाद्यपेक्षया सुवर्णस्य रौप्यख वा पञ्चकृष्णल- माषपरिमाणो दण्डः स्यात् ॥ ३३० ॥ परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ ३३१ ।। परीति ॥ निष्पुलाकीकृतेषु वृक्षेषु, धान्येपु, शाकादिषु चापहृतेषु, अन्वयो द्रव्यस्वामिनां संबन्धः, येन सह कश्चिदपि संबन्धो नास्त्येकग्रामवासादित्तत्र शतं दण्ड्यः। सान्वये तु पञ्चाशत्पणो देयः। खलस्थेषु च धान्येप्वयं दण्डस्तत्र हि परिपूर्यते । गृहेप्वेकादशगुणो दण्डः प्रागुक्तः ॥ ३३१ ॥ स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ३३२ ॥ स्यादिति ॥ यद्धान्यापहारादिकं कर्म द्रव्यस्वामिसमक्षं बलाद्धृतं तत्साहसं स्यात्, सहो बलं तद्भवं साहसम् । अत इह स्तेयदण्डो न कार्यः । एतदर्थः स्तेय- प्रकरणेऽस्य पाठः । यत्पुनः स्वामिपरोक्षापहृतं तत्स्तेयं भवेत् । यच्च हृत्वाऽपद्भुते तदपि स्तेयमेव ॥ ३३२ ॥ यस्त्वेतान्युपक्लुप्तानि द्रव्याणि स्तेनयेन्नरः। तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयगृहात् ॥ ३३३ ॥ यस्त्वेतानीति ॥ यः पुनरेतानि सूत्रादिद्रव्याण्युपभोगार्थ कृतसंस्काराणि मनु- प्यश्चोरयेत्, यश्च त्रेताग्निं गृह्याग्निं वाग्निगृहाचोरयेत्तं राजा प्रथमं साहसं दण्डयेत् । अग्निस्वामिनश्चाधानोपक्षयो दातव्यः । गोविन्दराजस्तु लौकिकाग्निमपि चोरयतो दण्ड इत्याह तदयुक्तम् । अल्पापराधे गुरुदण्डस्यान्याय्यत्वात् ॥ ३३३ ॥ मनु० २८