पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३२४ मनुस्मृतिः। [ अध्यायः तथा धरिममेयानां शतादभ्यधिके वधः। सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ ३२१ ॥ तथेति ॥ यथा धान्येन वध उक्तस्तथा तुलापरिच्छेद्यानां सुवर्णरजतादीनामु- स्कृष्टानां च वाससां पट्टादीनां पलशताधिकेऽपहृते वधः कर्तव्य एव । विषय- मीकरणं चात्र देशकालापहर्तद्रव्यस्वामिजातिगुणापेक्षया परिहरणीयम् । एवमुत्त- स्त्रापि ज्ञेयम् ॥ ३२१ ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिप्यते । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ३२२ ॥ पञ्चाशत इति ॥ पूर्वोक्तानां पञ्चाशदूर्ध्वं शतं यावदपहारे कृते हस्तच्छेदन मन्बादिभिरभिहितम् । शेषेष्वेकपलादारभ्य पञ्चाशत्पलपर्यन्तापहारे अपहृतगुणा- देकादशगुणं दण्डं दाप्यः ॥ ३२२ ॥ पुरुषाणां कुलीनानां नारीणां च विशेषतः। मुख्यानां चैव रत्नानां हरणे वधमहति ॥ ३२३ ॥ पुरुषाणामिति ॥ महाकुलजातानां मनुष्याणां विशेषेण स्त्रीणां महाकुलप्रसूतान श्रेष्टानां च रत्नानां वज्रवैदूर्यादीनामपहारे वधमर्हति ॥ ३२३ ॥ महापशूनां हरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ३२४ ॥ महापशूनामिति ॥ महतां पशूनां हस्त्यश्वादिगोमहिप्यादीनां तथा खड्गादीनां शस्त्राणां कल्याणघृतादेश्वौषधस्य च दुर्भिक्षादिरूपं कालं कार्य प्रयोजनं च सदस द्विनियोगरूपं निरूप्य राजा ताडनाङ्गच्छेदवधरूपं दण्डं प्रकल्पयेत् ॥ ३२४ ॥ गोषु ब्राह्मणसंस्थासु क्रिकायाश्च भेदने । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः॥ ३२५ ॥ गोप्चिति ॥ ब्राह्मणसंबन्धिनीनां गवामपहारे वन्ध्यायाश्च गोर्वाहनार्थं नासा च्छेदने पशूनां चाजैडकानां दण्डभूयस्वाद्यागाद्यर्थानां हरणेऽनन्तरमेव छिन्नाई पादिकः कार्यः ॥ ३२५ ॥ मुत्रकासकिण्वानां गोमयस्य गुडस्य च । दन्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ३२६ ॥ वेणुवैदलभाण्डानां लवणानां तथैव च । मृन्मयानां च हरणे मृदो भसन एव च ॥ ३२७ ।। मत्स्यानां पक्षिणां चैव तैलस च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥ ३२८ ॥