पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३२३ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्विपम् ॥३१६ । शासनादिति ॥ सकृन्मुसलादिप्रहारेण प्राणपरित्याजनान्मृतककल्पस्य जीवतो- ऽपि परित्यागाद्वा स चौरस्तस्मात्पापात्प्रमुच्यते । अतएव याज्ञवल्क्यः-'मृतकल्पः प्रहाराततॊ जीवन्नपि विशुद्ध्यति' इति । तं पुनस्तेन करुणादिभिरहत्वा स्नेनस्य यत्पापं ताजा प्राप्नोति ॥ ३१६ ॥ अन्नादे भ्रूणहा माटि पत्यौ भार्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विपम् ॥३१७। अन्नाद इति ॥ ब्रह्महा यस्तत्संबन्धि योऽन्नमत्ति तस्मिनसो स्वपापं मंक्रामयनि । भृणहान्नभोक्तुः पापं भवतीत्येतदन्न विवक्षितं नतु ब्रह्मनः पापं नश्यति । तथा भार्या व्यभिचारिणी जारपति क्षममाणे भर्तरि पापं संश्लेषयति । शिप्यश्च मंध्या- ग्निकार्याधकरणजन्यं पापं गुरौ सहमाने न्यस्यति । याज्यश्च विधिमनिक्रामन्याजके क्षममाणे पापं निक्षिपति । तेनश्च राजन्युपेक्षमाणे पापं समर्पयनि । नस्सादाज्ञा म्तेनो निग्रहीतव्यः ॥ ३१७ ॥ राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३१८ ॥ राजेति ॥ सुवर्णस्तेयादीनि पापानि कृत्वा पश्चाद्राजभिर्विहितदण्डी मनुष्यः सन्तः प्रतिबन्धकदुरिताभावात्पूर्वार्जितपुण्यवशेन साधवः सुकृतकारिण इव स्वी गच्छन्ति । एवं प्रायश्चित्तवहण्डस्यापि पापक्षयहेतुत्वमुक्तम् ॥ ३८॥ यस्तु रज्जु घट कूपाद्धरेद्भिद्याच यः प्रपाम् । स दण्डं प्राप्नुयान्मा तञ्च तस्मिन्समाहरेत् ॥ ३१९ ॥ यस्त्विति ॥ कृपसमीपे रज्जुघटयोजलोद्धारणाय धृतयो रज्जु घटं वा हरेत् । यो वा पानीयदानगृहं विदारयेत्स सौवर्ण मापं दण्डं प्रामुयात् । निर्दिष्टं तु सौवर्ण माषं तत्र प्रकल्पयेत्' इति कात्यायनवचनात् । तच्च रज्वादि तस्मिन्कने समर्पयेत् ॥ ३१९ ॥ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥ ३२० ॥ धान्यमिति ॥ द्विपलशतं द्रोणो विंशतिद्रोणश्च कुम्भः, दशसंख्येभ्यः कुम्भेभ्यो- ऽधिकं धान्यं हरतो वधः। स च हर्तृस्वामिगुणवत्तापेक्षया ताडनाङ्गच्छेदमारणात्मको ज्ञेयः। शेपे पुनरेकस्मादारभ्य दश कुम्भपर्यन्तहरणे निहतकादशगुणं दृषडं दाप्यः । स्वामिनश्वापहृतं दाप्यः ॥ ३२० ॥