३२२
मनुस्मृतिः।
[ अध्यायः ८
अनपेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।
अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ३०९ ॥
अनपेक्षितेति ॥ लचितशास्त्रमर्यादं परलोकाभावशालिनमनुचितदण्डादिना
धनग्राहिणं रक्षणरहितं करबल्यादेर्भक्षितारं राजानं नरकगामिनं जानीयात् ३०१
अधार्मिकं त्रिभियायनिगृह्णीयात्प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन वधेन च ॥ ३१०॥
अधार्मिकमिति ॥ अधार्मिकं चौरादिकमपराधापेक्षया त्रिभिरुपायैः प्रयत्नेन
नियमयेत् । तानाह-कारागारप्रवेशनेन, निगडादिबन्धनेन, करचरणच्छेदना-
दिनानाप्रकारहिंसनेन ॥ ३३० ॥
निग्रहेण हि पापानां साधूनां संग्रहेण च ।
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः॥ ३११ ॥
निग्रहेणेति ॥ पापशालिनां निग्रहेण, साधूनां संग्रहेण, द्विजातय इव महाय-
ज्ञादिभिः सर्वकालं नृपतयः पवित्रीभवन्ति । तस्मादधार्मिकान्निगृह्णीयासाधूं-
श्वानुगृह्णीयात् ॥ ३११ ॥
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धातुराणां च कुर्वता हितमात्मनः॥३१२ ।।
सातव्यमिति ॥ कार्यार्थिप्रत्यर्थिनां दुःखेनाक्षेपोक्तिं रचयतां तथा बालवृद्धव्या-
धितानामाक्षिपतां वक्ष्यमाणमात्मीयमुपकारमिच्छता प्रभुणा क्षमणीयम् ॥३१२॥
यः क्षिप्तो मर्षयत्यातस्तेन स्वर्गे महीयते ।
यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ ३१३ ॥
यः क्षिप्त इति ॥ दुःखितैराक्षिप्तः सहते यस्तेन स्वर्गलोके पूजां लभते । प्रभु-
त्वदन्न सहते यः स तेन नरकं गच्छति ॥ ३१३ ॥
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता।
आचक्षाणेन तत्स्तेयमेवंकर्मासि शाधि माम् ॥ ३१४ ॥
स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् ।
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ३१५॥
राजेति ॥ स्कन्धेनेति ॥ यद्यपि 'सुवर्णस्तेयकृद्विप्रः' इत्यादि प्रायश्चित्तप्रकरणे
वक्ष्यति तथापि सुवर्णस्तेयं प्रति राजदण्डरूपतामस्य दण्डप्रकरणे दर्शयितुं पाठः ।
ब्राह्मणसुवर्णस्य चौरेण मुक्तकेशेन वेगाद्गच्छता मया ब्राह्मणसुवर्णमपहृतमिति
संख्यापयता मुसलाख्यमायुधं खादिरमयं वा दण्डमुभयतस्तीक्ष्णां शक्तिं लोह-
मयं वा दण्डं स्कन्धे गृहीत्वा राजसमीपं गच्छेत् ततो ब्राह्मणसुवर्णहायहमतोऽनेन
मुसलादिना मां व्यापादयेत्येवं राज्ञे वक्तव्यम् ॥ ३१४ ॥ ३१५॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
