पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३२७ य इति ॥ अदत्तादायिनश्चौरस्य हस्ताद्यो ब्राह्मणो याजनाध्यापनप्रतिग्रहैरपि परकीयधनं ज्ञात्वा लब्धुमिच्छेत्स चौरवच्चौरतुल्योज्ञेयः, अतःस इव दण्ड्यः॥३४०॥ द्विजोऽध्वगः क्षीणवृत्तिविष द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३४१॥ द्विज इति ॥ द्विजातिः पथिकः क्षीणपाथेयो द्वाविक्षुदण्डौ द्वे वा मूलके पर- कीयक्षेत्राद्गृह्णन् दण्डदानयोग्यो न भवति ॥ ३४१ ॥ असंदितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहर्ता च प्राप्तः स्थाचोरकिल्बिषम् ॥ ३४२ ॥ असंदितानामिति ॥ अबद्धानामश्वादीनां परकीयानां यो दर्पण बन्धयिता, बद्धानां मन्दुरादौ मोचयिता, यो दासाश्वरथापहारी स चौरदण्डं प्राप्नुयात् । स घ गुरुलध्वपराधानुसारेण मारंणाङ्गच्छेदनधनाद्यपहाररूपो बोद्धव्यः ॥ ३४२ ॥ अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ॥ ३४३ ॥ अनेनेति ॥ अनेनोक्तविधानेन राजा चौरनियमनं कुर्वाण इह लोके ख्याति परलोके चोत्कृष्टसुखं प्राप्नुयात् ॥ ३४३ ॥ इदानीं साहसमाह- ऐन्द्र स्थानमभिप्रेप्सुर्यशश्वाक्षयमव्ययम् । नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ ३४४ ॥ ऐन्द्रमिति ॥ सर्वाधिपत्यलक्षणं पदं ख्यातिं चाविनाशिनीमनुपक्षयां चातिशयेन प्राप्तुमिच्छन्त्राजा बलेन गृहदाहधनग्रहणकारिणं मनुष्यं क्षणमपि नोपेक्षेत ॥३४४॥ वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः। साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः॥३४५॥ वागिति ॥ वाक्पारुष्यकृताचोराच्च दण्डपारुप्यकारिणश्च मनुष्यात्साहसकृन्म- नुष्योऽतिशयेन पापकारी बोद्धव्यः ॥ ३४५ ॥ साहसे वर्तमानं तु यो मर्षयति पार्थिवः । स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ३४६ ॥ साहस इति ॥ यो राजा साहसे वर्तमानं क्षमते स पापकृतामुपेक्षणादधर्म- बुद्ध्या विनश्यति । अपक्रियमाणराष्ट्रतया जनविद्वेषं च गच्छति ॥ ३४६ ॥ न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान्सर्वभूतभयावहान् ॥ ३४७ ॥ न मित्रेति ॥ मित्रवाक्येन बहुधनप्राप्त्या वा सर्वभूतभयजनकान्साहसिकान् राजा न त्यजेत् ॥ ३४७ ॥