अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता।
एप इति ॥ एषोऽनन्तरोक्तो वाक्पारुष्यस्य यथावद्दण्डविधिरुक्तः, अनन्तरं
ताडनादेर्दण्डपारुष्यस्य निर्णयं वक्ष्यामि ॥ २७८ ॥
येन केनचिदङ्गेन हिंस्याचेच्छ्रेष्ठमन्त्यजः ।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ २७९ ॥
येनेति ॥ अन्त्यजः शूद्रो येन केनचित्करचरणादिनाङ्गेन साक्षाद्दण्डादिनाऽव्यव-
हितेन द्विजाति प्रहरेत्तदेवाङ्गमस्य छेत्तव्यमित्ययं मनोरुपदेशः । मनुग्रहणमा-
दरार्थम् ॥ २७९ ॥
पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमहति ।
पादेन प्रहरन्कोपात्पादच्छेदनमर्हति ॥ २८० ॥
अस्यैवोत्तरत्र प्रपञ्चः पाणिमिति ॥ प्रहर्तुं पाणिं दण्डं वोद्यम्य पाणिच्छेदं लभते ।
पादेन कोपात्प्रहरणे पादच्छेदं प्राप्नोति ॥ २८० ॥
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः।
कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ।।२८१॥
सहेति ॥ ब्राह्मणेन सहासनोपविष्टः शूद्रः कट्या तप्तलोहकृतचिह्नोऽपदेशो
निर्वासनीयः । स्फिचं वास्य यथा न म्रियते तथा छेदयेत् ॥ २८१ ॥
अवनिष्ठीवतो दाद्वावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतो मेट्रमवशर्धयतो गुदम् ॥ २८२ ॥
अवेति ॥ दर्पण श्लेष्मणा ब्राह्मणानपमानयतः शूद्रस्य राजा द्वावोष्टी छेदयेत् ।
मूत्रप्रक्षेपेणापमानयतो मेई । शर्धनं कुत्सितो गुदशब्दानेनावमानयतो दांचा
प्रमादागुदं छेदयेत् ॥ २८२ ॥
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥ २८३ ॥
केशेष्विति॥दोदित्यनुवर्तते । अहंकारेण केशेषु ब्राह्मणं गृह्णतः शूद्रस्य पीडास्य
जाता न जाता वेत्यविचारयन्हस्तौ छेदयेत् । पादयोः श्मश्रुणि च ग्रीवायां वृषणे
च हिंसाथ गृह्णतो हस्तद्वयच्छेदभेव कुर्यात् ॥ २८३ ॥
त्वरभेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु पण्णिष्कान्प्रवास्यस्त्वस्थिभेदकः ॥ २८४ ॥
त्वम्भेदक इति ॥ चर्ममानभेदकृत्समानजातिन शूद्रो ब्राह्मणस्य दण्डलाघवं
पणशतं दण्डनीयः । तथा रक्तोत्पादकोऽपि शतमेव दण्ड्यः । मांसभेदी पति-
प्कान्दाप्यः । अस्थिभेदकस्तु देशान्निर्वास्थः ॥ २८४ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
