पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३१८ मनुस्मृतिः । [अध्यायः ८ वनस्पतीनां सर्वेषामुपभोगं यथायथा । तथातथा दमः कार्यों हिंसायामिति धारणा ॥ २८५ ॥ वनस्पतीनामिति ॥ वृक्षाद्युद्भिदां सर्वेषां येन येन प्रकारेण उपभोगः फलपुष्प- पत्रादिना उत्तममध्यमरूपो भवति तथातथा हिंसायामप्युत्तमसाहसादिर्दण्डो विधेय इति निश्चयः । तथाच विष्णुः-'फलोपभोगगुमच्छेदी तूत्तमं साहसं, पुप्पोपभोगगुमच्छेदी मध्यमं, वल्लीगुल्मलताच्छेदीकापणशतं, तृणच्छेद्येकं कार्पा- पणं च पण एव मनुनाप्युक्तो वेदितव्यः ॥ २८५ ॥ मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथायथा महदुःखं दण्डं कुर्यात्तथातथा ॥ २८६ ॥ मनुष्याणामिति ॥ मनुष्याणां पशूनां पीडोत्पादनार्थ प्रहारे कृते सति यथायथा पीडाधिक्यं तथातथा दण्डमप्यधिकं कुर्यात् । एवंच मर्मस्थानादौ त्वम्भेदनादिषु कृतेषु 'स्वरभेदकः शतं दण्ड्यः' इन्युक्ताइप्यधिको दण्डो दुःखविशेषापेक्षया कर्तव्यः ॥२८६॥ अङ्गावपीडनायां च व्रणशोणितयोस्तथा । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ २८७ ॥ अङ्गेति ॥ अङ्गानां करचरणादीनां व्रणशोणितयोश्च पीडनायां सत्यां समुत्था- नव्ययं यावता कालेन पूर्वावस्थाप्राप्तिः समुत्थानसंबन्धो भवति तावत्कालेन पथ्यौषधादिना यावान्व्ययो भवति तमसौ दापनीयः। अथ तं व्ययं पीडोत्पादको न दातुमिच्छति, तदा यः समुत्थानव्ययो यश्च दण्डस्तमेनं दण्डवेन राज्ञा दाप्यः ॥ २८७ ॥ द्रव्याणि हिंस्यायो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च सत्समम् ॥ २८८ ॥ द्रव्येति ॥ द्रव्याण्यनुक्तविशेषदण्डानि कटकानि ताम्रघटादीनि यो यस्य ज्ञानाद- ज्ञानाद्वा नाशयेत्स तस्य द्रव्यान्तरादिना तुष्टिमुत्पादयेत्, राज्ञश्च विनाशितद्रव्यसमं दण्डं दद्यात् ॥ २८८ ॥ चर्मचार्मिकमाण्डेषु काष्ठलोष्ठमयेषु च । मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ २८९ ॥ चर्मेति ॥ चर्मणि चर्मघटितवरत्रादौ चर्मकाष्टमृत्तिकानिर्मितेषु च भाण्डेषु पुष्पमूलफलेषु परस्य नाशितेषु मूल्यात्पञ्चगुणो दण्डो राज्ञो देयः । स्वामिनश्च तुष्टिरुत्पादनीयैव ॥ २८९ ॥ यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ २९० ॥