पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३१६ मनुस्मृतिः। [ अध्यायः ८ श्रुतं देशं च जातिं च कर्म शारीरमेव च । वितथेन बुवन्दादाप्यः स्थाविशतं दमम् ॥ २७३ ॥ श्रुतमिति ॥ समानजातिविषयमिदं दण्डलाघवान्न तु शूद्रस्य द्विजात्याक्षेपविष- यम् । न त्वयैतच्छ्रुतं, न भवान् तद्देशजातो, न तवेयं जातिर्न तव शरीरसंस्कार- मुपनयनादिकर्म कृतमित्यहंकारेण मिथ्या ब्रुवन्द्विशतं दण्डं दाप्यः स्यात् । बित- थेनेति तृतीयाविधाने 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया ॥ २७३ ॥ काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि त्रुवन्दाप्यो दण्डं कापणावरम् ॥ २७४ ॥ काणमिति ॥ एकाक्षिविकलं पादविकलमन्यमपि वा तथाविधं हम्ताङ्ग- विकलं सत्येनापि कागादिशब्देन बुवन्नत्यन्ताल्पं तदा कापणं दण्डं दाप्यः २७४ मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयञ्छतं दाप्यः पन्थानं चाददगुरोः॥ २७५ ॥ मातरमिति ॥ 'आक्षारितः क्षारितोऽभिशप्तः' इत्याभिधानिकाः । मात्रादी- पातकादिनाभिशपन् , गुरोश्च पन्थानमत्यजन्दण्ड्यः । भार्यादीनां गुरुलघुपाया- भिशापेन दण्डसाम्यं समाधेयम् । मेधातिथिस्तु आक्षारणं भेदनमित्युक्त्वा मातृपु- अपित्रादीनां परस्परभेदनकर्तुरयं दण्डविविरिति व्याख्यातवान् ॥ २७५ ॥ ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यों विजानता। ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ २७६ ॥ ब्राह्मणेति ॥ ब्राह्मणक्षत्रियाभ्यां परस्परं पतनीयाक्रोशे कृते दण्डशास्त्रज्ञेन राज्ञा दण्डः कार्यः । दण्डमेत्र विशेषणाह-ब्राह्मण इति । ब्राह्मणे क्षत्रियाक्रोशिनि प्रथमसाहसः कार्यः । ब्राह्मणाक्रोशिनि पुनः क्षत्रिय मध्यमसाहसः ॥ २७६ ॥ विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्ज प्रणयनं दण्डस्येति विनिश्चयः ॥ २७७ ॥ विडिति ॥ वैश्यशूयोरन्योन्यजातिं प्रति पतनीयाक्रोशे ब्राह्मणक्षत्रियवद्वेश्ये शूद्राक्रोशिनि प्रथमसाहसः । शूद्रे वैश्याक्रोशिनि मध्यमसाहस इत्येवंरूपं दण्डस्य प्रणयनं जिह्वाच्छेदरहितं यथावत्कर्तव्यमिति शास्त्रनिश्चयः । एवंच 'एकजातिर्द्विजातींस्तु' इति प्रागुक्तजिह्वाच्छेदो वैश्ये निवारितो ब्राह्मणक्षत्रिया- क्रोशविषय एवावतिष्ठते ॥ २७७ ॥ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊर्व प्रवक्ष्यामि ॥२७८॥