पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३१५ एष इति ॥ एष सीमा निश्चयो धर्मो निःशेषेणोक्तः, अत ऊचं वाक्पारुष्यं वक्ष्यामि । दण्डपारुष्याद्वाक्पारुष्यप्रवृत्तेः पूर्वमभिधानम् । अनुक्रमश्रुत्यां तु 'पारुप्ये दण्डवाचिके' इति दण्डशब्दस्याल्पस्वरत्वात्पूर्वनिर्देशः ॥ २६६ ॥ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ २६७ ॥ शतमिति ॥ द्विजस्य चौरेत्याक्षेपरूपं परुषमुक्त्वा क्षत्रियः पणशतं दण्डमर्हति । एवं सार्धशतं हे वा शते लाघवगौरवापेक्षया वैश्यः । शूद्रोऽप्येवं ब्राह्मणाकोशे ताडनादिरूपं वधमर्हति ॥ २६७ ॥ पञ्चाशद्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ २६८ ॥ पञ्चाशदिति ॥ ब्राह्मणः क्षत्रियस्योक्तरूपाक्षेपे कृते पञ्चाशत्पणान्दण्ड्यः । वैश्ये शूद्रे च यथोक्ताकोशे कृते पञ्चविंशतिदश पणाः क्रमेण ब्राह्मणस्य दण्डः स्यात् ॥ २६८॥ समवणे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ २६९ ॥ समेति ॥ द्विजातीनां समानजातिविषये यथोक्ताकोशे कृत द्वादशपणो दण्डः। अवचनीयेषु पुनराक्रोशवादेषु मातृभगिन्याद्यश्लीलरूपेषु तदेवेति नपुंसकानर्देशात् 'शतं ब्राह्मणमाक्रुश्य' इत्यादि यदुक्तं तदेव द्विगुणं दण्डरूपं भवेत् ॥ २६९ ।। एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः॥ २७० ॥ एकेति ॥ शूद्रो द्विजातीपातकाभियोगिन्या वाचाक्रुश्य जिह्वाच्छेदं लभेत् । यस्मादसौ पादाख्यान्निकृष्टाङ्गाजातः ॥ २७० ॥ नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः। निक्षेप्योऽयोमयः शङ्कु लन्नास्ये दशाङ्गुलः ॥ २७१ ॥ नामेति ॥ अभिद्रोह आक्रोशः। ब्राह्मणादीनां रे त्वं यज्ञदत्त ब्राह्मणापसद इत्याक्रोशेन नामजात्यादिग्रहणं कुर्वतो लोहकीलोऽग्निना प्रदीप्तो दशाहलो मुखेषु क्षेप्तव्यः ॥ २७१ ॥ धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः । तप्तमासेचयेत्तैलं वके श्रोत्रे च पार्थिवः ॥ २७२ ॥ धर्मेति ॥ कथंचिद्धर्मलेशमवगम्यायं ते धर्मोऽनुष्ठेय इति ब्राह्मणस्याहंकारादुप- दिशतोऽस्य शूद्रस्य मुखे कर्णयोश्च ज्वलत्तैलं राजा प्रक्षेपयेत् ॥ २७२ ॥