पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [ अध्यायः ८ व्याधाञ्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । व्यालग्राहानुच्छवृत्तीनन्यांश्च वनचारिणः ॥ २६० ॥ व्याधानिति ॥ लुब्धकान् , पक्षिवधजीविनः, गोपालान् , मत्स्यजीविनो, मूलो पाटनजीविनः, सर्पग्राहिणः, शिलोज्छवृत्तीनन्यांश्च फलपुष्पेन्धनाद्यर्थ वनव्यवहारिणः पृच्छेत् । एते हि स्वप्रयोजनार्थं तेन ग्रामेण सर्वदा वनं गच्छेयु- नद्रामसीमाभिज्ञाः संभवन्ति ॥ २६० ॥ ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोयोः ॥ २६१ ॥ ते पृष्टा इति ॥ ते व्याधादयः पृष्टाः सीमारूपेषु ग्रामसंधिषु येन प्रकारेण चिह्न ब्रूयुस्तत्तेनैव प्रकारेण द्वयोर्नामयोः सीमां व्यवस्थापयेत् ॥ २६१ ॥ क्षेत्रकूपतडागानामारामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ २६२ ॥ क्षेत्रेति ॥ एकग्रामेऽपि क्षेत्रकूपतडागगृहाणां सीमासेतुविवादे समस्त देशवा- सिसाक्षिप्रमाणक एव मर्यादाचिह्ननिश्वयो विज्ञेयो न व्याधादिप्रमाणकः ॥२६२॥ सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥ २६३ ॥ सामन्ता इति ॥ सीमाचिह्ननिमित्तं विवदमानानां मनुष्याणां चदि सामन्ता देशवासिनो मिथ्या ब्रूयुस्तदा ते सर्वे प्रत्येकं राज्ञा मध्यमसाहसं दण्डनीयाः । एवं चासामन्तरूपाणां पूर्वोक्तद्विशतो दमो ज्ञेयः ॥ २६३ ॥ गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाविशतो दमः ॥ २६४ ॥ गृहमिति ॥ गृहतडागोद्यानक्षेत्राणामन्यतमं मारणं बन्धनादिभयकथनपूर्वमा- क्रम्य हरणे पञ्च पणशतानि दण्डनीयः स्यात्स्वत्वभ्रान्त्याहरतो द्विशतो दमः २६४ सीमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेभूमिमेतेषामुपकारादिति स्थितिः ॥२६५ ॥ सीमायामिति॥लिङ्गसाक्ष्याद्यभावे सीमायां परिच्छेत्तुमशक्यायां राजैव धर्मज्ञः पक्षपातरहितो ग्रामहृयमध्यवर्तिनी विवादविषयां भूमि येपामेव ग्रामवासिनामु- पकारातिशयो भवति तद्व्यतिरेकेण च महाननिर्वाहस्तेषामेव दद्यादिति शास्त्र- व्यवस्था ॥ २६५॥ एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ २६६ ॥