पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः८] मन्वर्थमुक्तावलीसंवलिता। ३१३ यदीति ॥ यदि प्रच्छन्नप्रकाशलिङ्गदर्शनेऽपि प्रच्छन्नाङ्गारतुषादिकुम्भा अमी स्थानान्तरं नीत्वा निखाता नायं सीमातन्यग्रोधः स नष्ट इत्यादि समम्न एव अदि संदेहः स्यात्तदा साक्षिप्रमाण एक सीमाविवादनिश्चयो भवेत् ॥ २५३ ॥ ग्रामीयककुलानां च समक्षं सीनि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ २५४ ।। ग्रामीयकेति ॥ ग्रामिकजनसमूहानां ग्रामद्वयस्थनियुक्तयोर्वादिग्रनिवादिनोश्च समक्षं सीमाविषये सीमालिङ्गसंदेहे लिङ्गानि साक्षिणः प्रष्टव्याः ॥ २५४ ॥ ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीग्नि निश्चयम् । निबनीयात्तथा सीमां सर्वांस्तांश्चैव नामतः ।। २५५ ।। त इति॥ते पृष्टाः साक्षिणः समस्ता न वैधेन सीमाविषयेण येन प्रकारेण निश्चयं युस्तेन प्रकारेणाविस्मरणार्थ पत्रे सीमां लिखेत् । तांश्च सर्वानेव साक्षिणो नाम- विभागतो लिखेत् ॥ २५५ ॥ शिरोभिस्ते गृहीत्वोर्वी स्त्रग्विणो रक्तवाससः। सुकृतैः शापिताः स्वस्वैनयेयुस्ते समञ्जसम् ॥ २५६ ।। शिरोभिरिति ॥ ते साक्षिण इति सामान्यनवणेऽपि 'रक्तस्रग्वाससः सीमां नयेयुः' इति याज्ञवल्क्यवचनाद्रतपुष्पमालाधारिणो लोहितवाससो मस्तके मृल्लोष्टानि गृहीत्वा यदस्माकं सुकृतं तनिष्फलं स्यादित्येवमात्मीयैः सुतैः शा- पिताः सन्तस्तां सीमां यथाशक्ति निर्णयेयुः ॥ २५६ ॥ यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्दिशतं दमम् ।। २५७ ॥ यथोक्तेनेति ॥ते सत्यप्रधानाः साक्षिणः शास्त्रोक्तेन विधानेन निर्णयस्था निष्पापा भवन्ति । अतथ्येन तु निश्चिन्वन्तः प्रत्येकं पणशतद्वयं दण्डं दाप्या भवेयुः॥२५७॥ साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः। सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ २५८ ॥ साक्ष्यभाव इति ॥ ग्रामद्वयसंबन्धिसीमाविवादसाक्ष्यभावे चतुर्दिशं समन्त- भवाः सामन्तास्तद्वासिनश्चत्वारो ग्रामवासिनः साक्षिधर्मेण राजसमक्षं सीमा- निर्णयं कुर्यः ॥ २५८॥ सामन्तानामभावे तु मौलानां सीनि साक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ॥ २५९ ॥ सामन्तानामिति ॥ साक्षिधर्मेण राजसमक्षमनुभवेन निर्णयमकुर्वतां ग्रामवा- सिनां ग्राम निर्माणकालादारभ्य मौलानां पुरुषक्रमेण तद्रामस्थानां सीमासाक्षि- णामभाव इमान्वक्ष्यमाणान्संनिहितवनचारिणः पृच्छेत् ॥ २५९ ॥ मनु० २७ .