पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८]] मन्वर्थमुक्तावलीसंवलिता। २७५ माह । तन्न । तत्र संधिं कृत्वा तु यच्चौर्यमिति यत्स्वाम्येऽपि प्रणष्टराजरक्षितव्य- हरणनैव विशेषेण वधविधानाच्छतादभ्यधिके वध इत्यस्य विशेपोपदिष्टवधेतरवि- पयत्वात् ॥ ३४॥ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ३५ ॥ ममायमिति ॥ यो मानुषः स्वयं निधि लब्ध्वा, अन्येन वा निधौ प्राप्ते ममायं निधिरिति वदति सत्येन प्रमाणेन च स्वसंबन्ध बोधयति तस्य पुरुषस्य निर्गुणत्व- सगुणत्वापेक्षया ततो निधानादष्टभागं द्वादशभागं वा राजा गृह्णीयात् । अवशिष्टं तस्यार्पयेत् ॥ ३५॥ अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ।। ३६ ॥ अनृतमिति ॥ अस्त्रीयं स्वीयमिति ब्रुवन्स्वधनस्याष्टमं भागं दण्डयः । यद्वा तस्यैव निधेरत्यन्ताल्पभागं गणयित्वा येनावसादं न गच्छति न विषयश्च लभते तद्दण्ड्यः । अल्पीयसीमितीयसुन्नन्तनिर्देशात्पूर्वस्मादन्योऽयं दण्डः । विकल्पश्च निर्गुणसगुणापेक्षः ॥ ३६॥ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिहि सः ॥ ३७ ॥ विद्वानित्यादि ॥ विद्वान्पुनर्ब्राह्मणः पूर्वमुपनिहितं निधिं दृष्ट्वा सर्व गृह्णीयात् । न षड्भागं दद्यात् । यस्मात्सर्वस्य धनजातस्य प्रभुः । अतएवोक्तम् 'सर्वस्वं ब्राह्मणस्येदम्' इति । तस्मात्परनिहितविषयमेतद्वचनम् । तथाच नारद -'परेण निहितं लब्ध्वा राजा ह्यपहरेनिधिम् । राजा स्वामी निधिः सर्वः सर्वेषां ब्राह्मणा- हते ॥' याज्ञवल्क्योऽप्याह-'राजा लब्ध्वा निधिं दद्याहिजेभ्योऽर्धे द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्पतः ॥' अतो यन्मेधातिथिगोविन्दराजाभ्यां 'ममायमिति यो ब्रूयात्' इत्युक्तं, राजदेयार्थनिरासार्थ पित्रादिनिहितविषयत्वमे- वास्य वचनस्य व्याख्यातं तदनार्पम् । नारदादिमुनिव्याख्याविपरीतं स्वकल्पितं न मेधातिथिगोविन्दराजव्याख्यानमाद्रिये ॥ ३७ ॥ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्विजेभ्यो दत्त्वार्धमधु कोशे प्रवेशयेत् ॥ ३८ ॥ यं त्विति ॥ यं पुनरस्वामिकं पुरातनं भूम्यन्तर्गतं निधिं राजा लभते तस्माद्रा- ह्मणेभ्योऽधं दत्त्वार्धमात्मीयधनागारे च प्रवेशयेत् ॥ ३८ ॥ निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभारक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ३९ ॥